________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
102
तैत्तिरीयसंहिता
का. १. प्र. 1.
त्वा । अदित्याः । त्वक् । वेत्तु । अग्नेः । तनूः । असि । वाचः । विसर्जनमिति वि-सर्जनम् । देवीतय इति देव-वीतये । त्वा । गृह्णामि । अद्रिः । असि । वानस्पत्यः । सः । इदम् । देवेभ्यः । हव्यम् । सुशमीति सु-शमि । शमिष्व । इर्षम् । एति । वद । ऊर्जम् । एति । वद । द्युमदिति यु-मत् । वदत । वयम् । सङ्घातमिति सं-घातम् । जेष्म । वर्षवृहमिति वर्ष-वृहम् । असि । प्रतीति । त्वा । वर्षवृद्धमिति वर्ष-वृद्धम् । वेत्तु । परापूतमिति परापूतम् । रक्षः । परापूता इति परा-पूताः । अरातयः। रक्षसाम् । आगः। असि । वायुः। वः । वीति । विनक्तु । देवः । वः । सविता । हिरण्यपाणिरिति हिरण्य-पाणिः । प्रतीति । गृह्णातु ॥८॥ ___त्वा भाग एकादश च ॥ ५ ॥
अवधूतमित्यव-धूतम् । रक्षः । अवधूता इत्यव-धूताः । अरातयः । अदित्याः । त्वक् । असि । प्रतीति । त्वा । पृथिवी । वेत्तु । दिवः ।
For Private And Personal Use Only