________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकारान्तर मन्त्राभिधानम्
व्यापिनी शिवदा केतुर्जगत् सारतरं हठः ।। १६८ ।। ग्लोर्मुडानी च वेदसारो' नारायणः स्वयम् । जठरो नकुलि: पीतः शिवेशोऽनङ्गमालिनी ॥ १६९ ॥
क्ष॥ ३५॥ क्ष: कोपस्तुम्बुरु: कालो रुक्ष: संवर्तकः परः । नृसिंहो विद्युता माया महातेजा युगान्तकः ।। १७० ॥ परात्मा क्रोध-संहारौ वनान्तो मेरुवाचकः । सर्वाङ्गं सागरः कामः संयोगान्तस्त्रिपूरकः ॥ १७१॥ क्षेत्रपालो महाक्षोभो मातृकान्तोऽनल-क्षयौ । मुखं कव्यं महानन्ता कालजिह्वा गणेश्वरः ॥ १७२ ।। छायापुत्रश्च संघातो मलयश्रीललाटक:* ॥ १७३ ।।
१ प्राणशंकिर्ललाटजः २ वेदार्थः सारो ३ पीता ४ स्तम्बुक:--स्तुघुकः ५ व्यक्ष: ६ पय: ७ बलान्तो+नलान्त: ८ सर्वाग: ९ कव्यवहाऽनन्ता: * ललाटक इत्यनन्तरम् एतत् पद्यपंचकं क्वचिदधिकं दृश्यते
अर्कमाता कला वाणी नादो बिन्दुः सदाशिवः । अनुच्चार्या तुरोया च विश्वमातृकला परा ॥ नादः ॥ नमो हृत् पूजनं न्यासः सन्नतिविनतिर्नतिः । भक्तिस्तथा मन्त्ररूपं वन्दनन्त्वभिवादनम् ॥ नमः ॥ स्वाहा परा देवभोज्यं ठद्वयं चन्द्रयुग्मकम् । शुवो हरिदेवमाता देवास्यं वह्निसुन्दरी ॥ स्वाहा ॥ शिखा वषट् शिरामध्यं शक्रमाता हरप्रिया ।। वषट् ।। क्रोधाख्योहं तनुत्रश्च शस्त्रादौ रिपुसंज्ञक: ।। हुँ ॥ नेत्रयुग्मं तथा वौषट् शक्रदैवतमेव च । वौषट् ॥ अस्त्रादौ फट् छोटिका स्यादङ्गान्त: सुरवाचकः ।। फट् ॥
For Private and Personal Use Only