________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८७
कालिकाचार्यकथा । क्रीडतां बहिण्याने, कुमाराः(राणां-बालानां १) शकभूपतेः । पपात कन्दुकः कूपे, ततस्ते यज्बु(जजु)राकुलाः ॥३१॥ झातोदन्तेन तेनैभ्यो, धनुः कृत्वा करे निजे । शरं परेण संयोज्य कर्षितः कन्दुकोऽवटाव ॥३२॥ इत्यंकृत्य तमानीय, कुमारेभ्यो ददौ मुनिः । तेनेत्यं यत् कृतं तैस्तत्(द), गत्वा भूपे निवेदितम् ॥३३॥ समाहृयाऽवधूतं तं, सत्कृत्य स्वकमक्तितः । स नगौ हर्षपूरेण, किमर्थं त्वमिहागतः ? ॥३४॥ तेनोक्तं मिलनार्थ ते, नापरं कार्यमस्ति मे । स मुनिस्तेन भूपेन, स्थापितो निजसंनिधौ ॥३५॥ विद्याकलाकलापेन, प्रस्तावाऽऽपन्नवार्तया ।। तं तथा रञ्जयन् सोऽपि, न तिष्ठेत् तं विना यथा ॥३६॥ नृपं चिन्ताकुलं वीक्ष्यान्यदा सुरिरुवाच तम् । स्वत्समीपे सनामाङ्का, क्षुरिका पुटिका कथम् ? ॥३७॥ ततस्तमूचे मत्स्वामी, मामित्थं ज्ञापयत्यसौ । म्रियस्व क्षुरिकां लात्वा, पीत्वा च पुटिकाविषम् ॥३८॥ चतुर्नवतिभूपानामन्येषामपि मादृशाम् । इत्यादेशं प्रदत्तेऽसौ, तेन चिन्ताऽऽतुरोऽस्म्यहम् ॥३९॥ सूरिजंगाद हे राजन् !, मा चिन्तां कुरु सर्वथा । यूयं मिलत सर्वत्र, यथाऽहं वच्मि किञ्चन ॥४०॥ तद्वाक्या[व] त्वरितं तेन, मिलिताः सकलाः शकाः । भो! सर्वथा न मेतव्यमित्युक्त्वे(क्ते)ऽवक् मुनिस्ततः ॥४१॥ कात्वा परिकरं सर्वमिहाऽऽयान्तु समुत्सुकाः । सर्वैः संभूय भूयो यद्, गम्यते मालवं पति ॥४२॥ इत्यं कृते शकाः सर्वे, समाजग्मुः ससैन्यकाः । पुरस्कृत्यावधूतं तं, चेलुस्ते भयविहलाः ॥४३॥ अव(वि)च्छिन्नमयाणैस्ते, गताः सौराष्ट्रमण्डलम् । तदाऽऽजगाम वर्षः, प्रवासगमनापहः ॥४४॥
मेघा गर्जन्ति गाढं दस(श)दिशि चपलोद्योतते विद्युदेषा, __दृश्येते चन्द्र-सूर्यावहनि न निधि नो भूतलं पूर्णमद्भिः। आवासे सेशे)रते ते सुधनिन इतरे बाह्यभूमौ भ्रमन्ते, बप्तारोऽनानि सर्वाण्यपि धरणितलं कृष्य(?) हर्षाद् वपन्ते ॥४५॥
For Private And Personal Use Only