________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीमाणिक्यसूरिविरचिता दुष्षमारात्रिदीपाय, प्रतीपाय कुतीविनाम् । अनर्घ्यगुणरत्नौधरोहणाय नमोऽस्तु ते ॥९॥ श्रीकालकार्य प्रणिपत्य शक्रा,
स्वस्यागमं झापयितुं मुनीनाम् । कृत्वाऽन्यथाद्वारमुपाश्रयस्य,
संपूर्णकामस्त्रिदिवं जगाम ॥९५॥ मत्वाऽऽयुरन्तं भगवानपि स्वं,
श्रीकालकार्योऽनशनं विधाय । विहाय कायं विधिवद् विधिज्ञ
त्रिविष्टपस्याभरणं बभूव ॥१६॥ श्रीजिनमभसूरीन्द्रः, स्वाकपडलालितः । जग्रन्थैतां कयां श्रीमन्जिनदेवमुनीपरः ॥९७॥
इति श्रीकालिकसरिकथानकं समाप्तम् ।
[२० श्रीमाणिक्यसूरिविरचिता कालकाचार्यकथा ॥
वन्दारुहरिमन्दारूममरीपिअरक्रमम् । श्रीवर्द्धमानमानम्य, वक्ष्ये पर्युषणास्थितिम् ॥१॥ येन पर्युषणापर्व, चतुर्थीवासरे कृतम् । श्रीकालिकगुरोस्तस्य, कथ्यते प्रथिता क्या ॥२॥ जम्बूद्वीप इह द्वीपे, क्षेत्रे चात्रैव भारते । पुरमस्ति धरावासं, घरामण्डलमण्डनम् ॥३॥ आरामिकमिवाऽऽराम, पितेव निजसंततिम् । वैरिसिंहमहीपालस्वत्र पालयति प्रजाः ॥४॥ रोहिणीव शशाङ्कस्य, व्योमगडेव, वारिधः । शुचिशीलप्रियाऽऽलापा, पियोऽऽस्यात्स्य) सुरसुन्दरी ॥५॥ कुमारः मुकुमाराङ्गः, कुमार व विक्रमी । कालक्रमेण धर्मशः, कालकाऽऽख्यस्तयोरमूख ॥६॥
For Private And Personal Use Only