________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीप्रभाचन्द्राचार्यविरचिता सरिः श्रीभरतेश्वरस्तदनु च प्रामाणिकग्रामणी
नामस्मृतितोऽप्यघं हरति च श्रीधर्मघोषमभुः । कल्याणावलिकन्दलालिजलदः, श्रीसर्वदेवो गुरु
श्चत्वारः किल शीलभद्रसुगुरोः शिष्या नरेन्द्रार्चिताः ॥११॥ श्रीपात्रं स जिनेश्वरमभुरभूत् संघाम्बुधौ चन्द्रमाः,
मूरिः श्रीजिनदत्त इत्युदितधीरुभिद्रविद्याधुतिः । चारित्रामलशैलनन्दनवनं श्रीपप्रदेवमभुः,
श्रीश्रीचन्द्रमुनीश्वरस्य जयिनः शिष्या अभूवन्नमी ॥१२॥ श्रीसङ्घरोहणधराधरचारुरत्नं, श्रीपूर्णभद्रगुरुभ्युदितः पदेऽस्य । यत्सन्निधिस्थितिभृतो भुवि भव्यसार्थी वस्तूनि विश्वविषयानि विलोकयन्ति ॥१३॥ तत्पट्टोदयपर्वतामृतरुचिः पीणश्चकोरवज, .
श्रीचन्द्रप्रभसूरिरद्भुतमतिज्योत्स्नानिधानं बभौ । आश्चर्य न कलङ्कधाम तमसाऽनुल्लयमूर्ति भवं,
पायोधि क्षणुते विनम्रकमलोल्लासी न दोषाकरः ॥१४॥ आचार्यः श्रीप्रभाचन्द्रस्तत्पादाम्भोजषट्पदः । चित्रं यः सुमनःस्थोऽपि, सदानवगुरुक्रमः ॥१५॥ श्रीहेमचन्द्रसूरीणामनुध्यानप्रवृत्चितः । पर्वणः परिशिष्टस्य, दृष्टेः सम्पुटवासनः ॥१६॥ श्रीवजानुपपत्तप्रकटमुनिपतिमष्ठसत्तानि तत्तद्
. ग्रन्थेभ्यः कानिचिच्च श्रुतघरमुखतः कानिचित् संकलय्य । दुष्पापत्वादमीषां विशकलिततयैकत्र चित्रावदातं,
जिज्ञासैकाग्रहाणामधिगतविधयेऽभ्युश्चयं स प्रतेने ॥१७॥ त्रिमिविशेषकम् ॥ अत्र क्षणं हि यत् किश्चित् , संपदायविमेदतः । मयि प्रसादमाधाय, तच्छोधयत कोविदाः ॥१८॥
आराधितं मया शून्यं, यथा तुष्टं स्वतामदात् ।. निजोक्तौ स्थापितं तत् पाक्, कथाकन्यीकृतास्ततः ॥१९॥ रोदोरन्ध्रगसिद्धकिमरगणानुल्लङ्घ्यशृङ्गस्थिति
स्तुङ्गत्वोदितत्तशेवधिरतिपौढार्थसंपत्तिकृत् । प्ररत्नमभया तिरस्कृतपरज्योतिःमकाशोदयः, _श्रीपूर्वर्षिचरित्ररोहणगिरौ स्यादारवीन्दुब्रुवः ॥२०॥
For Private And Personal Use Only