SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कालिकाचार्यकथा । अन्येधुः कर्मदोषेण, सूरीणां तादृशामपि । आसन्नविनयाः शिष्या दुर्गतौ दोहदमदाः ॥१२९॥ अथ शय्यातरं माहुः, सूरयोऽवितथं वचः । कर्मबन्धनिषेधाय, वास्यामो वयमन्यतः ॥१३०॥ त्वया कथ्यममीषां च, प्रियकर्कशवाग्भरैः । शिक्षयित्वा विशालायां, पशिष्यान्ते ययौ गुरुः ॥१३१।। इत्युक्त्वाऽगात् प्रभुस्तत्र, तद्विनेयाः प्रगे ततः । अपश्यन्तो गुरूनूचुः, परस्परमवाङ्मुखाः ॥१३२॥ एष शय्यातरः पूज्यशुद्धिं जानाति निश्चितम् । एष दुनियोऽस्माकं, शाखाभिर्विस्तृतोऽधुना ॥१३३॥ पृष्टस्तैः स यथौचित्यमुक्त्वोवाच प्रभुस्थितिम् । ततस्ते संचरन्ति स्मोज्जयिनी पति वेगतः ॥१३४॥ गच्छन्तोऽध्वनि लोकैश्वानुयुक्ता अवदन् मृषा । पश्चादग्रस्थिता अग्रे, पश्चात्स्था प्रभवो ननु ॥१३५॥ यान्तस्तन्नामभृकारात्, पथि लोकेन पूजिताः । नारी-सेवक-शिष्याणामवज्ञा स्वामिनं विना ॥१३६॥ इतः श्रीकालका मरिर्वस्ववेष्टितरत्नवत् । यत्याश्रये विशालायां, प्राविशच्छन्नदीधितिः ॥१३७॥ मशिष्यः सागरः सूरिस्तत्र व्याख्याति चागमम् । तेन नो विनयः सूरेरभ्युत्थानादिको दधे ॥१३८॥ तत या प्रतिक्रम्य, कोणे कुत्रापि निर्जने । परमेष्ठिपरावर्त, कुर्वन् तस्थावसनधीः ॥१३९॥ देशनाऽनन्तरं भ्राम्यँस्तत्रत्यः सूरिराह च । किश्चित् तपोनिधे ! जीर्ण !, पृच्छ सन्देहमादृतः ॥१४०॥ अकिश्चिज्ज्ञो जरत्वेन, नावगच्छामि ते वचः । तथाऽप्यापृच्छय येनाई, संशयापगमक्षमः ॥१४॥ अष्टपुष्पीमथो पृष्टो, दुर्गमां सुगमामिव । गर्वाद् यत्किञ्चन व्याख्यादनादरपरायणः ॥१४२॥ दिनैः कैश्चित् ततो गच्छ आगच्छत् तदुपाश्रयम् । सरिणाऽभ्युत्थितोऽवादीद् , गुरवोऽग्रे समाययुः ॥१४३॥ वास्तव्या अवदन् वृद्धं, विनैकं कोऽपि नाययौ । तेष्वागच्छत्सु गच्छोऽभ्युदस्थात् सूरिश्च सत्रपः ॥१४४॥ ४० For Private And Personal Use Only
SR No.020798
Book TitleCollection of Kalka Story Part 02
Original Sutra AuthorN/A
AuthorAmbalal P Shah
PublisherSarabhai Manilal Nawab
Publication Year1949
Total Pages237
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy