________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीप्रभाचन्द्राचार्यविरचिता गन्तव्यं तत् प्रतिष्ठानपुरे संयमयात्रया । श्रीसातवाहनो राजा, तत्र जैनो दृढव्रतः ॥११३॥
ततो यतिद्वयं तत्र, पैषि सङ्काय मूरिभिः । प्राप्तेष्वस्मासु फर्त्तव्यं, पर्वपर्युषणं ध्रुवम् ॥११४॥ तौ तत्र सङ्गतौ संघमानितौ वाचिकं गुरोः । तत्राकथयतां मेने, तेनैतत् परया मुदा ॥११५॥ श्रीकालकमभुः माप, शनैस्तनगरं ततः । श्रीसातवाहनस्तस्य, प्रवेशोत्सवमातनोत् ॥११६॥ उपपर्युषणं तत्र, राजा व्यज्ञपयद् गुरुम् । अत्र देशे प्रभो ! भावी, शक्रध्वजमहोत्सवः ॥११७॥ नभस्यशुरूपन्नम्यां, ततः षष्ठयां विधीयताम् । स्वं पर्व नैकचित्तत्वं, धर्मे नो लोकपर्वणि ॥११८॥ मराह मजापाल !, पुराईद्गणभृद्गणः । पञ्चमी नात्यगादेतत् , पस्मिद्गुरुगीरिति ॥११९॥ कम्पते मेरुचूलाऽपि, रविर्वा पश्चिमोदयः ।। नातिक्रामति पर्वेद, पञ्चमीरजनी ध्रुवम् ॥१२०॥ राजाऽवदच्चतुर्थी तत्, पर्व पर्युषणं ततः । इस्थमस्तु गुरु: माह, पूर्वैरप्यातं यदः ॥१२१॥ अर्वागपि यता पर्युषणं कार्यमिति श्रुतिः । महीनाथस्ततः माह, हर्षादेतत् प्रियं प्रियम् ॥१२२॥ यतः कुहूदिने पर्वोपवासे पौषधस्थिताः । अन्तःपुरपुरन्ध्यो मे, पक्षादौ पारणाकृतः ॥१२३॥ तत्राष्टमं विधातॄणां, निम्रन्यानां महात्मनाम् । भवतु पाकाहारैः, श्रेष्ठमुत्तरपारणम् ॥१२४॥ उवाच प्रभुरप्येतन्महादानानि पश्च यत् । निस्तारयन्ति दत्तानि, जीवं दुष्कर्मसागरात् ॥१२५।। पथश्रान्ते तथा ग्लाने, कृतलोचे बहुश्रुते । दानं महाफलं दत्तं, तथा चोत्तरपारणे ॥१२६।। वतःमभृति पञ्चम्याश्चतुर्थ्यांमागतं बदः । कषायोपशमे हेतुः, पर्व सांवत्सरं महत ॥१२७।। श्रीमत्कालकसूरीणामेवं कत्यपि वासराः । जग्मुः परमया तुष्टया, कुर्वतां शासनोन्नतिम् ॥१२८॥
For Private And Personal Use Only