SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीप्रभाचन्द्राचार्यविरचिता व्यजिज्ञपत् स विज्ञाय, नाथ ! सरिर्गुणाकरः । प्रशान्तपावनी मूर्ति, बिभ्रद् धर्म विश्वत्यसौ ॥१३॥ विश्राम्यद्भिर्नृपारामे, श्रूयतेऽश्य बचोऽमृतम् । अस्त्वेवमिति सर्वानुज्ञातं तत्राभ्यगादसौ ॥१४॥ गुरुं नत्वोपविष्टे च, विशेषादुपचक्रमे । धर्माख्यां योग्यतां ज्ञात्वा, तस्य ज्ञानोपयोगतः ॥१५॥ धर्माईद्गुरुतत्त्वानि, सम्यग् विज्ञाय संश्रय । ज्ञान-दर्शन-चारित्ररत्नत्रयविचारकः ॥१६॥ धर्मो जीवदयामूळः, सर्वविद् देवता जिनः । ब्रह्मचारी गुरु सङ्गभङ्गभू रागभङ्गमित ॥१७॥ व्रतपश्चकसंवीतो, यतीनां संयमाश्रितः । दशपकारसंस्कारो, धर्मः कर्मच्छिदाकरः ॥१८॥ य एकदिनमप्येकचित्त आराधयेदमुम् ।। मोक्षं वैमानिकत्वं वा, म प्राप्नोति न संशयः ॥१९॥ अथो गृहस्थधर्मश्च, व्रतद्वादशकान्वितः । दान-शील-तपो-भावभङ्गीभिरभितः शुभः ॥२०॥ स सम्यक् पाल्यमानश्च, शनैर्मोक्षपदो नृणाम् । जैनोपदेश एकोऽपि, संसाराम्भोनिधेस्तरी ॥२१॥ श्रुत्वेत्याह कुमारोऽपि, मङ्गिनीमतिनी दिश । दीक्षां मोक्षं यथा ज्ञानवेलाकुलं लभे लघु ॥२२॥ पितरौ स्वावनुज्ञाप्यागच्छ तव तेऽस्तु चिन्तितम् । अत्यादरेण तत् कृत्वाऽगाज्जाम्या सहितस्ततः ॥२३॥ प्रव्रज्याऽदायि तैस्तस्य, तया युक्तस्य च स्वयम् । अधीती सर्वशास्त्राणि, स प्रज्ञाऽतिशयादभूत् ॥२४॥ स्वपट्टे कालकं योग्य, प्रतिष्ठाप्य गुरुस्ततः । श्रीमान् गुणाकारः सरिः, प्रेत्यकार्याण्यसाधयत् ॥२५॥ अथ श्रीकालकाचार्यो, विहरमन्यदा ययौ । पुरीमुज्जयिनी बायारामेऽस्याः समवासरत् ॥२६॥ मोहान्धतमसे तत्र, मग्नानां भव्यजन्मिनाम् । सम्यगर्थपकाशेऽभूत, प्रभूष्णुमणिदीपवन ॥२७॥ तत्र श्रीगर्दभिल्लाख्यः, पुर्या राजा महाबलः । कदाचित् पुरवायोयी, कुर्वाणो राजपाटिकाम् ॥२८॥ कर्मसंयोगतस्तत्र, व्रजन्तीमैक्षत स्वयम् । जामि कालकसूरीणां, काको दषिघटीमिव ॥२९॥ यम्मम् ॥ For Private And Personal Use Only
SR No.020798
Book TitleCollection of Kalka Story Part 02
Original Sutra AuthorN/A
AuthorAmbalal P Shah
PublisherSarabhai Manilal Nawab
Publication Year1949
Total Pages237
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy