SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कालिकाचार्यकथा । हा ! रक्ष रक्ष सोदर्य !, क्रन्दन्ती करुणस्वरम् । अपाजीहरदत्युप्रकर्मभिः पुरुषैः स ताम् ॥३०॥ साध्वीभ्यस्तत परिज्ञाय, कालकमभुरप्यथ ।। स्वयं राजसमज्यायां, गत्वाऽवादीत तदग्रतः ॥३१॥ वृत्तिविधीयते कच्छे, रक्षायै फलसंपदः । फलानि भक्षयेत् सैवाख्येयं कस्याग्रतस्तदा ॥३२॥ राजन् ! समग्रवर्णानां, दर्शननां च रक्षकः । त्वमेव तन्न ते युक्तं, दर्शनिव्रतलोपनम् ॥३३॥ उन्मत्तकभ्रमोन्मत्तवदुन्मत्तो नृपाधमः । न मानयति गामस्य, म्लेच्छवद् ध्वंसते तथा ॥३४॥ संघेन मन्त्रिभिः पौरैरपि विज्ञापितो दृढम् । अवाजीगणदारुढो, मिथ्यामोहे गलन्मतिः ॥३५॥ प्राक्क्षात्रतेज आचार्य उभिद्रममजत् वतः । भतिज्ञां विदधे घोरां, तदा कातरतापनीम् ॥३६॥ जैनापभ्राजिनां ब्रह्मवालममुखधाविनाम् । अर्हडिम्बविहन्तृणां, लिप्येऽहं पाप्मना स्फुटम् ॥३७॥ न चेदुच्छेदये शीघ्रं, सपुत्र-पशु-बान्धवम् । अन्यायकर्दमकोडं, विब्रुवन्तं नृपब्रुवम् ॥३८॥ युग्मम् ।। असंभाव्यमिदं तत्र, सामान्यजनदुष्करम् । उक्त्वा निष्क्रम्य दम्भेनोन्मत्तवेषं चकार सः ॥३९॥ एकाकी भ्रमति स्मायं, चतुष्के चत्वरे त्रिके । असम्बद्धं वदन् द्वित्रिश्चेतनाशून्यवत् तदा ॥४०॥ गर्दभिल्लो नरेन्द्रश्चेत्, ततस्तु किमतः परम् ? । यदि देशः समृद्धोऽस्ति, ततस्तु किमतः परम् ? ॥४१॥ बदन्तमिति तं श्रुत्वा, जनाः पाहुः कृपाभरात् । स्वमुविरहितः सरिस्ताहरू अहिलतां गतः ॥४२॥ युग्मम् ॥ दिनः कतिपयैस्तस्माभिर्ययावेक एव सः । पश्चिमां दिशमाश्रित्य, सिन्धुतीरमगाच्छनैः ॥४३॥ शाखिदेवश्च तत्रास्ति, राजानस्तत्र शाखयः । शकापराभिधाः सन्ति, नवतिः पभिरर्गला ॥४४॥ तेषामेकोऽधिराजोऽस्ति, सप्तलक्षतुरनमः । तुरङ्गायुतमानाचापरेऽपि स्युरेश्वराः ॥४५॥ एको माण्डलिकस्तेषां, मैक्षि कालकसरिणा । अनेककौतुकमेक्षाहतचितः कृतोऽध सः ॥४६॥ For Private And Personal Use Only
SR No.020798
Book TitleCollection of Kalka Story Part 02
Original Sutra AuthorN/A
AuthorAmbalal P Shah
PublisherSarabhai Manilal Nawab
Publication Year1949
Total Pages237
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy