________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३७
कालिकाचार्यकथा । बिहरन् कालकाचार्यः, समवासरदन्यदा । गर्दभिल्लाधिष्ठिताया उज्जयिन्याः पुरो बहिः ॥८॥ राजपाव्यां गतोऽन्येधू राजाऽपश्यत् सरस्वतीम् । साध्वीं साध्वीकृतां रूपवतीं बाह्यभुवं गताम् ॥९॥ कामातः सोऽथ तां दृष्ट्वा, साध्वीं स्वान्तःपुरेऽक्षिपत् । हाँ भ्रातः ! कालकाचार्य !, रक्ष मामिति वादिनीम् ॥१०॥ सूरिभिः बहु भङ्गीभिस्तथा संवेन मन्त्रिभिः । प्रधानैर्भणितोऽप्येष, यावत् तां मुमुचे नहि ॥११॥ तदा संघसमक्षं स, प्रतिज्ञां सूरिरग्रहीत् । नोन्मूलयामि चेन्मूलाद्, राज्यादेनं नृपोऽधमम् ॥१२॥ संघादिप्रत्यनीकानां, गतिं माप्नोम्यहं तदा । गच्छे नियोज्य गीतार्थ, मूरिरेवमचिन्तयत् ॥१३॥ नृपः स्वभावात् प्रौढोऽसौ गर्दभीविद्यया बलम् । उच्छेद्यस्तदुपायेनेत्युन्मत्त इव सोऽभ्रमत् ॥१४॥ यदि गर्दभिल्लो राजा, ततोऽपि किमतः परम् । यद्वाऽस्यान्तःपुरं रम्यं, ततोऽपि किमतः परम् ॥१५॥ यद्वाऽस्य विषयो रम्यस्ततोऽपि किमतः परम् । सुनिविष्टा पुरी यद्वा, ततोऽपि किमतः परम् ॥१६॥ यदि वाजिनः सुवेषस्ततोऽपि किमतः परम् । यद्वा भ्रमाम्यहं भैलं, ततोऽपि किमतः परम् ॥१७॥ यद्वा मू(शून्यगृहे स्वप्नं, ततोऽपि] किमतः परम् । इत्याधलीकं जल्पन्तं, सूरिं दृष्ट्वा जनोऽब्रवीत् ॥१८॥ धिग् भूपं प्रापितः मरिरीदृशीं येन दुर्दशाम् । श्रुत्वा च धिग्र(क) क्रियां राज्ञो, व्यज्ञापि सचिवैः पुनः ॥१९॥ प्रसीद देव ! मुश्चैतां, व्रतिनी स्नेहवर्जिताम् । साध्वीविध्वंसतश्चात्र, दुर्यशोऽमुत्र दुर्गतिः ॥२०॥ नृपः क्रुद्धोऽथ तानूचे, सि(शि)क्षयध्वं पितॄन् निजान् । तेऽथ तूष्णीं स्थितास्तच्च, श्रुत्वाऽऽचार्योऽपि निर्ययौ ॥२१॥ यान् मतीच्यां शककूलं, कूलं पाप क्रमात् प्रभुः । आवर्जयच्च मन्त्राधेस्तत्रैकं शाखिनं नृपम् ॥२२॥ शाखानुशाखी तत्स्वामी, ततोऽन्येधुराययौ ।
समर्प्य प्राभृतं चाऽऽगात, सूरिस्तु नृपमब्रवीत् ॥२३॥ २ नास्तीदं नवमपर्थ P प्रतौ । ३ रक्ष मामिति जल्पन्ती, हा भ्रातः । कालकप्रभो P1 ४ तश्वा(स्ताव
३५
प्रती।
For Private And Personal Use Only