SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीरामभद्रविरचिता आदेशात् तैश्च सूरीणां, शाखिभिर्जितकाशिभिः । चतुर्दिक्षु स्वकैः सैन्यैर्गत्वाऽथ रुरुधे पुरीम् ॥६३॥ यन्त्रशस्त्रादिभिस्तत्र, क्रियमाणे रणेऽनिशम् । विश्रामो नाभवत् कश्चिदुभयोरपि सैन्ययोः ॥१४॥ अन्यदा शून्यमालोक्य, वमं सर्वत्र शाखिभिः । किमेतदिति विज्ञप्ता आदिशनिति सूरयः ॥६५॥ अष्टमीतिथिरद्याऽस्यामवन्तीश उपोषितः । सर्वदा गर्दभी विद्या, साधयत्येष निश्चितम् ॥६६॥ तद् विलोकयत कापि, खरीमहालके स्थिताम् । विलोकयद्भिदृष्टा सा, सूरीणामथ दर्शिता ॥६७॥ सूरिमिर्भणितं भद्रा, एषा मालवभूभुजा । समर्थिते मन्त्रजापे, महाशब्दं करिष्यति ॥६८॥ तं श्रोष्यत्यरिसैन्ये, यद् द्विपदं वा चतुष्पदम् । तत् सर्व रक्तमुद्वम्य, पतिष्यत्यवनीतले ॥६९॥ सजीवं सर्वमादाय, द्विपदादि निशामुखे । द्विगम्यूतिप्रमाणं तद्, यूयं व्रजत सत्वरम् ॥७॥ साष्टवतं मे योधानां, ददध्वं शब्दवेधिनाम् । तैस्तथेतिकृतं दृष्टप्रत्यये को विसंवदेव ? ॥७॥ तथोक्ताः सूरिभिर्योधाः, शब्दार्थ गर्दभी निजम् । यदा विकासयत्यास्य, सर्वैरप्येकहेलया ॥७२॥ तदैवाकृतशब्दाया युष्माभिः शीघ्रवेधिभिः । नाराचनिचयैरस्याः, पूरणीयं मुखं क्षणात् ॥७३॥ कृतस्वरायाश्चामुष्या भवन्तोऽपि न किश्चन । अमत्ताः स्थ तद् यूयं, सज्जीकृतशरासनाः ॥७४॥ ततश्च भुंकरणार्थ, व्यात्तं वदनमेतया । समं मुक्तैः पृषक्तस्ते, तूणपूरमपूरयत् ॥७५॥ हतशक्तिः खरीविद्या, साधकस्यैव मस्तके । कृत्वा मूत्रं पुरीषं च, दत्वा पादं ययौ कचित् ॥७॥ सूरिभिः शाखिनः प्रोक्ता गृही(ही)ध्वं सांपतं पुरीम् । एतावदेव सामर्थ्यममुष्याऽऽसीद् गतं च तत् ॥७७।। प्राकारं खण्डशः कृत्वा, शाखिनः प्राविशन् पुरीम् । बध्वा गर्दभिल्लं चामी, सूरेः पादाग्रतोऽक्षिपम् ॥७८।। सूरयोऽप्यब्रुवन् पाप !; यद्वतिन्या[:] कृतस्त्वया । व्रतस्य भङ्गः शुद्धाया यद् वयं च तिरस्कृताः ॥७९॥ For Private And Personal Use Only
SR No.020798
Book TitleCollection of Kalka Story Part 02
Original Sutra AuthorN/A
AuthorAmbalal P Shah
PublisherSarabhai Manilal Nawab
Publication Year1949
Total Pages237
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy