________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२९
कालिकाचार्यकथा । तस्यां पुरि श्रीरम्यायामल्पसचो जडात्मकः । आसीद् गर्दभिलो राजा, राजीविन्यामिव प्लवः ॥१४॥ राजपाटयां गतोऽन्येधुः, सतीं सावां सरस्वतीम् । अपश्यन् नृपवर्मस्थां, च्युतः स नृपवर्त्मतः ॥१५॥ वियोगेन स्मरस्येयं, किं रतिव्रतमग्रहीत् । व्रतच्छन्नमहो रूपं, विषाऽऽवृतमिवाऽमृतम् ॥१६॥ स्मराऽऽतुरेण तेनति, लिप्ता सऽन्तःपुरे निजे । हा भ्रातः कालकाचार्य !, रक्षेलत्याधाल(त्याल ?)पन्(ती १) मुहुः ॥१७॥ नानोक्तिभिः सूरिभिश्च, भणितस्तां स नामुचत् । आसनव्यसनच्छन्नमतीनां क शुभं मनः ॥१८॥ चतुविधेन संघेन, राजपुम्भिश्च नीतिमिः । भणितोऽपि मुहुर्यावत् , प्रपेदे न स किश्चन ॥१९॥ क्रद्धोऽय कालिकाचार्यः, क्रीडतकल्पान्तभीषणः । तावत् समक्षं संघस्य, प्रतिज्ञामकरोदिमाम् ॥२०॥ संघस्य प्रत्यनीका ये, गुरूणां घातकाच ये । तेषां गतिमहं यामि, यम(न) नृपपांशनम् ॥२१॥ उन्मूलयामि नो राज्यान्मूलाद् वृक्षमिवोत्थितम् । व्रतच्छन्नमपि क्षात्रं, तेजो हि स्फ(स्फुरति स्फुटम् ॥२२॥ आचार्यश्चिन्तयत्येष, स्वभावात् प्रौढपौरुषः । किं पुनः कृतसाहाय्यो, गर्दभ्या विद्ययाऽनिशम् ॥२३॥ उपायैरु(रेवोत्पाटयोऽसावित्युन्मत्त इवाभवत् । मलपंश्चाऽभ्रमत् पौरैः, परीतः परितः पुरि ॥२४॥ यदि गर्दभिल्लो राजा, ततो मे किमतः परम् । मुनिविष्टा यदि पुरी, ततो मे किमतः पु(पारम् ॥२५॥ यदि शून्यगृहे स्वापस्ततो मे किमतः परम् । भोजनं यदिवा भैलं, ततो मे किमतः परम् ॥२६॥ इत्यादि मलपन्तं तं, वीक्ष्याऽऽहुः कृपया प्रजाः । घिर भूपं गणभृद् येन, लहितो दुर्दशामिति ॥२७॥ श्रुत्वेति धिक्रियां राजा, विज्ञप्तः सचिवैः पुनः । कुरु प्रसाद भूपेन्द्र !, विमुञ्चैतां तपस्विनीम् ॥२८॥ निन्दतीह जनोऽतीव दुर्यशश्चान्यराजम् । अमुत्र नरकं घोरं, व्रतिनीव्रतभङ्गतः ॥२९॥
३३
For Private And Personal Use Only