SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyanmandir प्रयोजनवादेवास्मै रामः कुलधनं श्रीरङ्गनाथं ददौ । धर्मसंस्थापनार्थमेवावतीर्णस्य रामस्य नियोगेनावशिष्ट राक्षसजाति सन्मार्गे प्रवर्तयितुं तस्य राज्याङ्गीकरणम् । इदमप्याज्ञानुविधायित्वात् कैर्यकोटावन्तर्भूतमिति विभीषणतात्पर्यम् । अतो यथावद्विदितधर्मों लक्ष्मणोऽपि “अई तावन्महाराजे |पितृत्वं नोपलक्षये । भ्राता भर्ता च बन्धुश्च पिता च मम राघवः॥” इति सोपाधिकपितरं दशरथं परित्यज्य निरुपाधिकसकलविषबन्धुं राममेव "अग्रत स्ते गमिष्यामि पन्थानमकुतोभयम् । अहं सर्व करिष्यामि जाग्रतः स्वपतश्च ते ॥” इति रामपरिचरणमेव फलं प्रार्थयामास । “स भ्रातुश्चरणौ गाढं निपीड्य रघुनन्दनः" इति राघवं शरणमुपागतश्च । तथा विभीषणोऽपि सोपाधिकबन्धुं भ्रातरं परित्यज्य कैकापेक्षयैव सर्वविधसहजबन्धुं रामं शरणं गत इति बोध्यम् । अत एव रामप्राप्त्यपेक्षया रावणपरित्यागवेलायामन्तरिक्षगतः श्रीमानिति प्रशंसितः ‘स तु नागवरः श्रीमान् ''लक्ष्मणो लक्ष्मि तं मेरुशिखराकारं दीप्तामिव शतह्रदाम् । गगनस्थं महीस्थास्ते ददृशुर्वानराधिपाः ॥२॥ सम्पन्नः' इतिवत् । तस्मानाधर्मशङ्का विभीषणे । ननु यद्येवं तार्ह “ययोर्वीर्यमुपाश्रित्य प्रतिष्ठा कारक्षिता मया। तावुभौ मम नाशाय प्रसुप्तौ पुरुषर्षभो । जीवन्नपि विपन्नोऽस्मि नष्टराज्यमनोरथः । प्राप्तप्रतिज्ञश्च रिपुः सकामो रावणः कृतः॥" इति नागपाशबन्धनसमये स्वस्य राज्यनाशकृत। निर्वेदः कथमुपपद्यते इति चेत् । न तत्रापि प्रतिष्ठाशब्दस्य रामकैयपरत्वात् । नष्टराज्यमनोरथ इत्यत्रापि राज्यशब्दो "भवद्गतं मे राज्यं च "N इत्युक्तकैकय॑साम्राज्यपरः। एतेन “राज्यं प्राप्स्यसि धर्मज्ञ लङ्कायां नात्र संशयः" इति सुग्रीववचनं तु तदाशयाज्ञानकृतमिति न कश्चिदोष इति पाहुः । अत एव चतुरशीतो वक्ष्यति विभीषणः-"यदाज्ञप्तं महाबाहो त्वया गुल्मनिवेशनम् । तत्तथाऽनुष्ठितं वीर त्वद्वाक्यसमनन्तरम् ॥” इति ॥१॥ रावणसमीपादुत्पतनसमय एव सुग्रीवादयो विभीषणमपश्यन्नित्याह-तमिति । तं दवानर्निर्गत्य शीतलहदे पतितुमिवागच्छन्तम् । मेरुशिखराकारम् उन्नतत्वपीवरत्वरत्नबहुलत्वादिभिर्मेरुशिखरतुल्यम् । किञ्च प्रतिपक्षत्यागलाभेन स्थिरतया स्थितत्वं प्रकाशमानत्वं पारतन्त्र्यज्ञापकत्वम्, तेन रामस्य शृङ्गलाभः रावणस्य शृङ्गभङ्गश्वोच्यते । दीप्तामिव शतहदाम् तेजिष्ठत्वगगनसञ्चाराभ्यां विद्युहष्टान्तः । रामभक्ता वानरा नास्मान् । प्रवेशयिष्यन्तीति कम्पः, अप्रवेशे जीवनं न सिद्धयतीति त्वरा चेत्येतद्वयं तेन गम्यते । गगनस्थमिति । दूरत एव ददृशुरिति भावः ॥२॥ श्रीरामनामधेयं कौसलेयं राममाजगामेति न दोषः ॥ १॥ तमिति । मेरुशिखराकारमिति उन्नतत्वपीवरत्वरत्नबहुलत्वादिभिरुशिखरदृष्टान्तः । नोदष्ठत्व For Private And Personal Use Only
SR No.020795
Book TitleValmiki Ramayanam Part 05
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages772
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy