________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
कर्तव्यसौकर्य " यावन्न गृहन्ति शिरांसि बाणाः" इत्यकरणे प्रत्यवायं चोक्त्वा । परुषं सस्त्रीकजनसुखावहस्य मलयमारुतस्य विरहिणि दुःखकरत्व र वद्विभीषणोदितं हितम् आश्रयदोषेण परुषम् । वाक्यं हितपरिपूर्णम् । उक्त्वा हितज्ञो भ्राता भातरमापत्रं परितत्याजेत्यपयशो यावता शक्यं परि। माष्? तावत्पर्यन्तमुक्त्वा । परुषत्वे हेतुः रावणमिति । प्रबलदुर्बलविचारमन्तरेण सर्वरावकस्य शत्रुबलोपवर्णने परुषं भवत्येव । रावणानुजः रावणानु जत्वेऽपि सत्त्वोत्तरतया कथनीयं हितमुक्तवानित्यषिः स्तोति । हितकयने ज्येष्ठभावोऽप्यप्रयोजकाअत एवोक्तं मनुना-"पितृनध्यापयामास शिशराशि रसः कविः। पुत्रका इति होवाच ज्ञानेन परिगृह्य तान् । अझं हि बालमित्याहुः पितेत्येव च मन्त्रदम् ॥” इति । आजगाम रावणगोष्ठयां स्वस्थ सम्बन्धाभावेन रामगोष्ठयाः स्वगृहत्वेनाजगामेत्युक्तम्, न तु जगामेति। मुहूर्तेन “वरं हुतवहज्वालापनरान्तर्व्यवस्थितिः। नशोरिचिन्ताविमुखजनसंवास विशसम् ॥” इति न्यायेनाङ्गारनिकरपरिक्षिप्ते वर्त्मनि पदन्यासवत् रावणसदनावस्थित्यनहत्वं विगलितवन्धनरज्जोर्वत्सस्य मातुरूपास्पर्शमन्तरेण । मध्यदेशादर्शनवदतिवेगागमनं चोक्तम् । यत्र रामः रामापेक्षया तद्देशसम्बन्धस्य प्राप्यन्वमुक्तम् । “सुभगश्चित्रकूटोऽसौ गिरिराजोपमो गिरिः । यस्मिन् । वसति काकुत्स्थः कुबेर इव नन्दने ॥” इतिवत् । रामस्य लक्ष्मणो व्यावर्तक इति सलक्ष्मण इत्युक्तम् । यदा पुरुषकारसान्निध्यमनेनोच्यते। अनेन । लोकेन भगवद्विमुखाना देशस्य त्याज्यत्वं तत्सम्बन्धिदेशस्य परमप्राप्यत्वं चोक्तम् । यद्वा “सा काशीति न चाकशीति" इत्यायुक्तरीत्या भगवद्देश स्यापि भागवताभिमानाभावे परित्याज्यत्वालक्ष्मणसान्निध्यमुक्तम् । ननु विश्रवःपितामहवरप्रदानविभवविदितनिखिलधर्मवृन्देन “विभीषणस्तु धर्मात्मा न तु राक्षसचेष्टितः" इति तत्र तत्र धार्मिकतया प्रशंसितेन विभीषणेन "ज्येष्ठो भ्राता पितृसमः" इति पितृवदनुवर्तनीयो ज्येष्ठधाता बाल्यात् प्रभृति परिपोषकश्च सन् रावणः सपदि सन्निहिते शत्रौ क्षुद्रबुद्धिनेव दूर कथं परित्यक्तः त्यजतु नाम कथंचित् । अथापि न युक्तमभिगन्तुं तस्य प्रदर्ता रम् । अभिगच्छतु नाम नोचितमस्य स्थानमभिलषितुम् । अभिलपतु नाम नौपयिकमस्य वधोपायं निर्देष्टुम् । अत्र केचित्-रावणस्य निरवधिकदोष दूषितत्वात् “गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः। उत्पथं प्रतिपन्नस्य परित्यागो विधीयते ॥” इति स्मरणाद्विभीषणेन त्यक्तो रावण इत्याहुः। त्रय्यन्तगुरवस्तु पितामहवरप्रसादेन लन्धविज्ञानत्वादाम सर्ववेदान्तवेद्यं सर्वलोकेश्वरभूतं सर्वलोकशरण्यं मुक्तप्राप्यं नारायणाख्यं परं ब्रह्म लोका ननु “ज्येष्ठनाता पिता चैव यश्च विद्या प्रयच्छति । त्रयस्ते पितरो ज्ञेया धर्मश्चेदब कारणम्।।" इति स्मृतेः ज्येष्ठभ्रातृत्वेन पितृसमं परित्यागानई रावण परित्यज्य रामसमीपगमनं विभीषणस्य विरुद्धामति चेत, सत्यमा “गुरोरप्पवलिप्तस्य कार्याकार्यमजानतः । उत्पथं प्रतिपन्नस्य परित्यागो विधीयते ॥" इत्यादिना ।
For Private And Personal Use Only