________________
Shri Mahavir Jain Aradhana Kendra
डा.रा.भ. ॥ ४४ ॥
www.kobatirth.org
शौर्यबलात्र शालिनो मे कुतो विपदाशङ्केत्यत्राह शूरा इति । कालाभिपन्नाः मुत्युगृहीताः । सीदन्ति शीर्यन्ति । वालुकाः सिकताः ॥ २४ ॥ तदिति । मर्षयतु भवानिति शेषः ॥ २५ ॥ स्वस्तीत्यर्धम् ॥ २६ ॥ निवार्यमाणस्येति । स्पष्टम् ॥ २७ ॥ रामानु०- परीतकालाः परीतः प्रत्यासन्नः कालो मृत्युर्येषां ते तथोक्ताः ॥ २७ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने षोडशः सर्गः ॥ १६ ॥
शूराश्च बलवन्तश्च कृतास्त्राश्च रणाजिरे । कालाभिपन्नाः सीदन्ति यथा वालुकसेतवः ॥ २४ ॥ तन्मर्षयतु यच्चोक्तं गुरुत्वाद्धितमिच्छता । आत्मानं सर्वथा रक्ष पुरीं चेमां सराक्षसाम् ॥ २५ ॥ स्वस्ति तेऽस्तु गमिष्यामि सुखी भव मया विना ॥ २६ ॥ [ नूनं न ते रावण कश्चिदस्ति रक्षोनिकायेषु सुहृत् सखा वा । हितोपदेशस्य स मन्त्रवक्ता यो वारयेत्त्वां स्वयमेव पापात् ॥ ]निवार्यमाणस्य मया हितैषिणा न रोचते ते वचनं निशाचर । परीतकाला हि गतायुषो नरा हितं न गृह्णन्ति सुहृद्भिरीरितम् ॥ २७॥ इत्यार्षे श्रीरामायणे • श्रीमद्युद्धकाण्डे षोडशः सर्गः ॥ १६ ॥
Acharya Shri Kalassagarsuri Gyanmandir
इत्युक्त्वा परुषं वाक्यं रावणं रावणानुजः । आजगाम मुहूर्तेन यत्र रामः सलक्ष्मणः ॥ १ ॥
एवमष्टभिः सर्गेः- “ आनुकूल्यस्य सङ्कल्पः प्रातिकूल्यस्य वर्जनम् । रक्षिप्यतीति विश्वासो गोप्तृत्ववरणं तथा ॥ आत्मनिक्षेपकार्पण्ये पविधा शरणागतिः ॥" इत्युक्तेषु शरणागत्यङ्गेषु प्रपित्सोर्विभीषणस्यानुकूल्यसङ्कल्पप्रातिकूल्यवर्जने दर्शिते । पुनः पुनरुपदेशादिना महाविश्वासो दर्शितः । अथ कार्पण्यप्रदर्शनपूर्वकं शरणागतिस्वरूपं दर्शयितुमुपक्रमते इत्युक्त्वेत्यादिना । तत्र रावणेन तिरस्कारे सत्यस्य देश एवास्माभिस्त्याज्यः । परम धार्मिक श्रीरामाश्रयस्तु कर्तव्य इति धार्मिकस्य विभीषणस्य धर्मे मतिरासीदित्यपिः प्रस्तौति इतीति । इत्युक्त्वा "प्रदीयतां दाशरथाय मैथिली" इति मर्षयतु भवानिति शेषः ॥ २९ ॥ २६ ॥ परीतकालाः परीतः प्रत्यासन्नः कालो येषां ते । यद्वा परीतः परिवृतः कालः मृत्युरिव अहिः तेन गतान्याचि येषां ते तथोक्ताः ॥ २७॥ इति श्रीमहेश्वर० श्रीरामायणतत्त्वदीपिकाख्यायां युद्धकाण्डव्याख्यायां षोडशः सर्गः ॥ १६ ॥ एवं परावरज्ञो विभीषणः दुर्मानिना रावणेन धिकृतः तं परित्यज्य अन्तारक्षस्थितः सन् रावणस्यानुकूलबुद्धत्रुत्पत्तिमत्याशया पुनरपि हितोपदेशं कृत्वा तत्रापि रावणाभिमुखमनालोक्य तेन सह संसगयोग्यत्वं सम्यङ्गनिश्चित्य त्वरया श्रीरामं प्रातुकामः श्रीरामनिवासभूमिं प्राप्तवानित्याह-इत्युक्त्वेति । रावणानुजो विभीषणः यत्र सलक्ष्मणो रामः तत्राजगामेति सम्बन्धः ।
For Private And Personal Use Only
टी. यु.का.
सन् १७
॥ ४४ ॥