________________
She Mahavir Jain Aradhana Kendra
Acharya Shri Kasagarsur Gyanmandir
www.kobatirth.org
एवमाकाशै उत्पतन्नपि पुनस्तस्मिन्ननुतापेन अपि नाम समुद्भवेत् समीची मतिरिति हितोपदेशे प्रावर्ततेत्याइ-अब्रवीदिति । अन्तरिक्षगतः श्रीमान् । “परित्यक्ता मया लङ्का मित्राणि च धनानि च" इति समुत्थितस्य का नाम श्री 1 उच्यते-प्रतिकूलानिवृत्तिपूर्वकानुकूलरामावषयाभ मुख्यश्रीसमेत इत्यर्थः ॥ १७॥ रामानु०-भत्र श्रीशन्देन सोपाधिकप्रतिकूलसंवन्धपरित्यागपूर्वकनिरुपाधिकस्वामिसंबन्धावलम्बनरूपा श्रीरुच्यते ॥ १७॥ स त्वमित्यर्ष मकं वाक्यम् । स त्वं परुषवादी त्वम् । प्रातासि प्रतिवक्तुमनर्दोऽसिं अतो यद्यदिच्छसि तद्वद ॥ १८ ॥ ताई किमर्थमुद्तोऽसि प्रतिवचनाभावात्
अब्रवीच तदा वाक्यं जातक्रोधो विभीषणः। अन्तरिक्षगतः श्रीमान् भ्रातरं राक्षसाधिपम् ॥ १७ ॥ स त्वं भ्राताऽसि मेराजन् ब्रूहि मां यद्यदिच्छसि ॥ १८॥ ज्येष्ठो मान्यः पितृसमो न च धर्मपथे स्थितः । इदं तु परुष वाक्यं न क्षमाम्यनृतं तव ॥ १९॥ सुनीतं हितकामेन वाक्यमुक्तं दशानन । न गृहन्त्यकृतात्मानः कालस्य वशमागताः ॥२०॥ सुलभाः पुरुषा राजन् सततं प्रियवादिनः। अप्रियस्य तु पथ्यस्य वक्ता श्रोता च दुर्लभ: ॥२१॥ बद्धं कालस्य पाशेन सर्वभूतापहारिणा। न नश्यन्तमुपेक्षेयं प्रदीप्तं शरणं यथा ॥ २२॥ दीप्तपावक
सङ्काशैः शितैः काञ्चनभूषणैः। न त्वामिच्छाम्यहं द्रष्टुं रामेण निहतं शरैः ॥२३॥ क्षमापि किया तबाह-ज्येष्ठ इति । ज्येष्ठस्त्वं पितृसमः मान्यः । किंतु धर्मपथे न स्थितोऽसि । अतस्त्वदुक्तमनृतं परुषं न क्षमामि न क्षमे ॥ १९॥ रामानु-दमिति । वसेत्सह सपनेनेत्यादिना यदुक्तं तादिदम् ॥ १९ ॥ स्ववाक्याश्रवणे निमित्तं सामान्यतो दर्शयति-सुनीतमिति । स्पष्टम् ॥ २० ॥ सुलभा इति । प्रियवादिन इत्युपलक्षणं प्रियश्रोतारश्च ।।२१ ॥ तहश्रोतारं प्रति किमर्थ वदसि ? तत्राह-बद्धमिति । सर्वभूतापहारिणा निर्दयेनेत्यर्थः। नोपेक्षेयम् नोपेक्षेय । शरणं गृहम् ॥ २२ ॥ दीप्तेति । स्पष्टम् ॥ २३ ॥ अबबीदित्यादि-ज्येष्ठो मान्य इत्यन्ते वाक्यसमाप्तिः । न च धर्मपथे स्थित इति परशेषः । यतो न धर्मपथे स्थितः अतः इदं न क्षमामीति सम्बन्धः ॥१७-१९॥ सुनीतं सुनिर्मितम् । उपेक्षेयम् उपेक्षेय । शरणं ग्रहम् ॥ २२-२४॥
For Private And Personal Use Only