________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Shri Kalassagarsur Gyanmandir
पा.रा.भू.
टी.यु.का.
nyan
स.१९
लापात् ।रसं मकरन्दम् । विन्दन् पिबन् । तत्र रसाधारे पुष्पे। न विद्यते न तिष्ठति। रसप्रदानोपकारंजानन् तत्र न स्निह्यतीत्यर्थः। त्वमपि तथा मधुकर इव । अनार्येषु दुर्जनेषु सौहृदं तथा हि । उपजीव्यविषये न जायत इत्यर्थान्तरन्यासः ॥ १२ ॥ रामानु०-ययेति । मधुकरः तात् तृष्णातः रसं विन्दन् पिबन्। तत्र रसाधारे यथा न सक्तो भवति त्वमपि तथैव । अनार्येषु सौहद तथा तथा खल्वित्यर्थः ॥ १२ ॥ तथापि कृतस्नेहः कुतोऽपलप्यते तत्राद-ययेति । अनार्येषु सौहृदं गजस्नानवत्तैरेव दुष्यत इत्यर्थः ॥ १३ ॥ रामानु० -पया पूर्वमिति । गजः पूर्व स्नात्वा हस्तेन रजो गृह्य गृहीत्वा आत्मनो देदं यथा दूषयात अनार्येषु सौहदं तथा तादृशम् ।
यथा पूर्व गजः स्नात्वा गृह्य हस्तेन वै रजः। दूषयत्यात्मनो देहं तथाऽनार्येषु सौहृदम् ॥ १३॥ यथा शरदि मेघानां सिञ्चतामपि गर्जताम् । न भवत्यम्बुसंक्लेदस्तथाऽनार्येषु सौहृदम् ॥१४॥ अन्यस्त्वेवंविधं ब्रूयादाक्यमेतन्निशाचर । अस्मिन् मुहूर्ते न भवेत्त्वां तु धिक् कुलपसिनम् ॥ १५॥
इत्युक्तः परुषं वाक्यं न्यायवादी विभीषणः। उत्पपात गदापाणिश्चतुर्भिः सह राक्षसैः ॥१६॥ कागजा इवालार्याः पूर्वं कृतं स्नेहं स्वयमेव नाशयन्तीत्यर्थः ॥ १३ ॥ दृष्टोऽपि स्नेहो न फलपर्यवसायीत्याह-यथेति । शरदि सिञ्चतां वर्षताम् मेघानां सम्बन्धी अम्बु|
संक्लेदः अम्बुसेचनं यथा न भवति तथाऽनार्येषु सौहृदम् । झरन्मेघवर्षणवदनार्येषु सौहमनुपकारकमित्यर्थः ॥ १४ ॥ रामानु०-यथेति । शरदि सिञ्चतां Kजलं मुञ्चतां गर्जतां च मेघानां संबन्धी अम्बुसलेदः भुवि सम्यगाताहेतुस्तोयधारा न भवति यथा । अनार्येषु सौहदं तथा । शरदि मेघा इव अनार्याः आपातत उपकुर्वन्त इव प्रतीय ।।
माना वस्तुतो नोपकुर्वन्तीत्यर्थः ॥ १४ ॥ एवं सामान्येन विनिन्य साक्षादपि निन्दति-अन्य इति । अन्यः अनुनादन्यः एवंविधम् अतिपरुपम् एतत्पूर्वोक्तं वाक्यं ब्रूयात् वदेच्छेत् अस्मिन्मुहूर्तेऽस्मिन् क्षण एव न भवेत् विनश्येत् । नाशयेयमिति यावत् । त्वां तुभ्रात्राभासं पिक त्यक्ष्यामीत्यर्थः । कुलपासनं राक्षसकुलावद्यकरम् ॥ १५॥ इत्युक्त इति । न्यायवाद्यपि इति पूर्वोक्तरीत्या परुपमुक्तस्सन उत्पपात सन्तप्तसिकतामयभूमिस्थित इव उद्गतः ॥१६॥ यथेति । गजः पूर्व सात्वा हस्तेन रजो गृह्य गृहीत्वा आत्मनो देहं यथा दूषयति अनायेंषु सङ्गतं तथा तादृशम् । गज इव अनार्याः पूर्व कृतं स्नेह स्वयमेव नाशयन्तीत्यर्थः॥ १३ ॥ शरदि सिबतो जललवान मुश्चता मेघानां यथा आह्रींभावो न भवति, मेघा इव अनार्याः आपातत उपकुर्वन्त इव प्रतीय माना अपि वस्तुतो नोपकुर्वन्तीत्यर्थः ॥ १४-१६॥
For Private And Personal Use Only