________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
अग्नितोऽपि क्षणानाशकराणि । शस्त्राणि आयुधानिचान भयावहानि। पाशाः मरणादप्यतिदुस्सहपारखश्यकेशकराश्चन भयावहाः। किंतु घोराःनिर्दयाः | स्वार्थप्रयुक्ताःस्वप्रयोजनपराः ज्ञातयःभयावहाः।अग्न्यादिभ्योऽप्यधिकं ज्ञातिभ्यो भयमित्यर्थः ॥७॥ उक्तं ज्ञातिभयातिरेकं सयुक्तिकमुपपादयतिउपायमिति । अस्माकं ग्रहणे एते ज्ञातिरूपा हस्तिनः उपायं वक्ष्यन्ति अबोपायकथने संशयो नास्ति। अतः कृत्स्नादग्न्याभियात् ज्ञातिभयं सुकष्टम्। प्रकृष्टं भयमित्यर्थः, इदमस्माभिः विदितं ज्ञातं च ॥८॥ स्निग्धेषु ज्ञातिषु कुतो भयसम्भावनेत्याशङ्कयाह-विद्यत इति । गोसम्पत्त्याधुपादानं दृष्टान्ता
उपायमेते वक्ष्यन्ति ग्रहणे नात्र संशयः। कृत्स्नाद्भयाज्ज्ञातिभयं सुकष्टं विदितं च नः॥८॥ विद्यते गोषु सम्पन्न विद्यते ब्राह्मणे दमः। विद्यते स्त्रीषु चापल्यं विद्यते ज्ञातितो भयम् ॥ ९॥ ततो नेष्टमिदं सौम्य यदहं लोकसत्कृतः। ऐश्वर्यमाभिजातश्च ज्ञातीनां मूर्ध्यवस्थितः ॥ १० ॥ यथा पुष्करपणेषु पतितास्तोयबिन्दवः । न श्लेषमुपगच्छन्ति तथाऽनार्येषु सङ्गतम् ॥ ११ ॥
यथा मधुकरस्तांद्रसं विन्दन्न विद्यते । तथा त्वमपि तत्रैव तथाऽनार्येषु सौहृदम् ॥ १२ ॥ र्थम् । गोषु सम्पन्न सम्पत्तिः। तद्धेतुत्वमित्यर्थः । विद्यते आस्ति । “विद सत्तायाम्" इति धातुः । दमः इन्द्रियनिग्रहः। चापल्यं चञ्चलत्वम् । ज्ञातितःज्ञातिषु । भयं भयकरत्वम् ॥९॥ प्रधानं साधनमिति श्लोकोक्तं निदर्शयति-तत इति । अहं लोकसत्कृतः ऐश्वर्यम् अभिजातः प्राप्तः । रिपूणां मूर्यवस्थितश्चेति यत् इदं ततः ज्ञातीनामसहिष्णुत्वात् तव नेष्टम् ॥१०॥ रामानु-सौम्येत्याक्षेपोक्तिः ॥ १०॥ चिरं सह वसति विभीषणे कथमकार्यमाशझसे इत्यपेक्षाया मनार्यस्य चिरसंवासोऽप्रयोजक इत्याह-यथेति । पुष्करपणेषु पद्मपत्रेषु । पतितास्तोयबिन्दवः यथा श्लेषम् ऐक्यं नोपगच्छन्ति तथा अनार्येषु दुष्टेषु विषये। सङ्गतं सम्बन्धः । श्लेषं नेहवन्धं नोपयातीत्यर्थः॥११॥ त्वदुपजीविनस्त्वयिकथं स्नेहबन्धाभाव इत्यत्राह-यथेति । यथा मधुकरः तर्षात् अभि सम्पन्नं सम्पत्तिः॥९॥ अहम् ऐश्वर्यमभिजातः प्राप्तः लोकसत्कृत इति यत् इदं ज्ञातीनामसह्यत्वात्तव नेष्टम् ॥ १०॥ ११॥ तर्षात अभिलापात् । रसं मकरन्दं पिबन तब रसाधारे कुसुमे न विद्यते न तिष्ठति । त्वमपि तथा मधुकर इत्र । अनार्येषु सङ्गतं तथा तादृशमित्यर्थः ॥ १२ ॥
For Private And Personal Use Only