________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
जा.रा.भ.
मनुसृतवानिति भावः ॥१॥ परुषवाह-वसेदिति । सपनेन बाह्यशत्रणा । मित्रप्रवादेन मित्रवदवभासमानेनेत्यर्थः । शत्रुसविना शत्रुपक्षपातिना टी.पु.का. सहजशत्रुणेत्यर्थः । शत्रुसर्पसहवासादपि सहजशवसहवासः सुदूरं परिहतव्य इति भावः। अतस्त्वया अस्मानगरात् सद्यो गन्तव्यामति द्योत्यते॥२॥VIRON अत्र शत्रसेवित्वे हेतून् त्रिभिदर्शयति-जानामीत्यादिभिः । सर्वलोकेषु सर्वजनेषु मध्ये। शीलं स्वभावम् । शीलमेवाह हृष्यन्तीति । अस्मद्व्यसनेन। लब्धहर्षस्त्वमेवं गर्जसीति भावः ॥ ३ ॥ प्रधानमिति । ज्ञातयः । प्रधानं स्वजातिश्रेष्ठम् । साधनं कार्यसाधकम् । वैद्यं विद्वांसम् । प्राधान्यादिष्वकैक
वसेत् सह सपत्नेन क्रुद्धनाशीविषेण वा । न तु मित्रप्रवादेन संवसेच्छत्रुसेविना ॥२॥ जानामि शीलं ज्ञातीनां सर्वलोकेषु राक्षस । हृष्यन्ति व्यसनेष्वते ज्ञातीनां ज्ञातयः सदा ॥३॥ प्रधानं साधनं वैद्यं धर्मशीलं च राक्षस। ज्ञातयो ह्यवमन्यन्ते शूरं परिभवन्ति च ॥ ४॥ नित्यमन्योन्यसंहृष्टा व्यसनेष्वाततायिनः । प्रच्छन्नहृदया घोरा ज्ञातयस्तु भयावहाः॥५॥ श्रूयन्ते हस्तिभिर्गीता श्लोकाः पद्मवने क्वचित् । पाशहस्तान्नरान् दृष्ट्वा शृणु तान् गदतो
मम॥ ६ ॥ नाग्निर्नान्यानि शस्त्राणि न नः पाशा भयावहाः। घोराः स्वार्थप्रयुक्तास्तु ज्ञातयो नो भयावहाः ॥७॥ शगुणयोगेऽपि ज्ञातयोऽवमन्यन्ते, न बहुमन्यन्ते अवसरे परिभवन्ति चेत्यर्थः ॥ ४॥ एवं ज्ञातीनां ज्ञातिषु व्यसने हर्षः उत्कर्षेऽसूया चेति शीलय
मुक्तम् । अथ भयावहत्वरूपं शीलान्तरमाइ-नित्यमिति । प्रतिच्छन्नहृदया गूढाभिप्रायाः । अत एव नित्यमन्योन्यसंहृष्टाः बहिः स्नेहवन्त इव स्थिताः। घोरा क्रूरकर्माणः । अत एव व्यसनेषु सत्सु आततायिनः द्रोहकारिणः । अतस्त्वमस्मासु व्यसने प्रहर्तुमिच्छसीति भावः॥५॥ उक्तं ज्ञातीनां भयाM वहत्वं हस्तिगीतेन संवादयति-श्रूयन्त इत्यादिना । क्वचित्पावने । पाशहस्तान् पाशाः गजग्रहणरजवः ते हस्तेषु येषां ते तथोक्तान् । स्वबन्धनोयुक्ता निति यावत् । नरान् ज्ञातिगजगोप्तृन् गजयाहिपुरुषान् दृष्ट्वा हस्तिभिः गीताः पठिताः श्लोकाः श्रूयन्ते । वक्तृपरम्परया तान् श्लोकान् गदतः वदतः ॥१२॥ मम मत्तः शृणु ॥ ६॥ तानेव त्रीन् श्लोकानुपादत्ते-नाग्निरित्यादि। नः अस्माकम् । अनिः आश्रयाशोऽपि न भयावहः। अन्यानि लोकविलक्षणानि शत्रुसेविना शत्रुपक्षपातिना ॥२॥३॥ साधनं कार्यसाधकम् । वैद्यं विद्वांसम् । अवमन्यन्ते परिभवन्ति च ॥४॥ नित्यम् इतरतालेषु व्यसनेष्वापत्तु च । आततायिनः द्रोहकारिणः ॥ ५॥ उक्तं ज्ञातीना भयावहत्वं हस्तिगीतामुखेन संवादयितुमाह-भूपन्त इति ॥६॥ नेति । स्वार्थप्रयुक्ताः स्वार्थपराः ॥७॥८॥
For Private And Personal Use Only