________________
Shri Mahavir Jain Aradhana Kendra
www.kobaithong
Acharya Shri Kalassagarsun Gyanmandir
प्रभान् । ब्रह्मदण्डी नाम युगान्तसमुत्थितोऽग्निवर्णो धूमकेतुरित्येके । ब्रह्मशाप इत्यन्य । अर्चिष्मतः ज्वालावतः।"अचिहतिः शिखा स्त्रियाम्" इत्यमरः ।। कालनिकाशरूपान् अन्तकसदृशरूपान् । समक्षमुक्तान् समीपे मुक्तान् ॥ १३॥ कृतस्याकृत्यस्य प्रायश्चित्तं राजानं प्रत्याह-धनानीति । रत्नानि श्रेष्ठ वस्तूनि । “रत्नं स्वजातौ श्रेष्ठेऽपि" इत्यमरः । धनानि द्रव्याणि ॥१४॥ इति श्रीगोविन्द श्रीरामा० रन• युद्धकाण्डव्याख्याने पञ्चदशः सर्गः॥१५॥
धनानि रत्नानि विभूषणानि वासांसि दिव्यानि मणींश्च चित्रान् । सीतां च रामाय निवेद्य देवीं वसेम राजनिह M वीतशोकाः ॥ १४ ॥ इत्याचे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे पञ्चदशः सर्गः॥ १५॥
सुनिविष्टं हितं वाक्यमुक्तवन्तं विभीषणम् । अब्रवीत् परुषं वाक्यं रावणः कालचोदितः॥१॥ इत्थं हितमुक्तवन्तं विभीषणं प्रति रावणस्य परुषभाषणं षोडशे-सुनिविष्टमिति । सुसन्निवेशम् अर्थानुसन्धानविरहेऽपि श्रवणमात्रेणात्यन्तप्रीतिजनकम् । तेनार्थस्याननुकूलत्वेऽपि श्रवणस्यापरित्याज्यत्वमुक्तम् । सुनिविष्टम् उक्तवन्तमिति कियाविशेषणं वा । तेन मनस्यलग्नं चेदनादरणीयं वा स्यात् । मनसि सम्यग्लनं यथा भवति तथा उक्तवन्तम् । हितं न केवलं श्रवणप्रियम्, अतिदुर्दशानिस्तरणोपायतया पथ्यम् । श्रवणकटुत्वेऽपि पथ्यत्वपर्यालोचनया अपरित्याज्यम् । वाक्यं यावद्वक्तव्यार्थपूर्णम् उक्तवन्तम् । "नासंवत्सरखासिने प्रत्यात्" इत्युक्तरीत्या गुरूपसदनयुक्तस्य पादयोः पतितस्य वक्तव्यस्य दुर वस्थां दृष्ट्वोक्तवन्तं विभीषणम् । अन्येन चेदुक्तं परित्याज्यम् । साक्षादनुजतया प्रत्यासनेनोक्तं कथं त्याज्यम् । परुषं वाक्यमब्रवीत् । श्रवणसमनन्तरं स्थितोऽस्मि गतसन्देह इति वा वक्तव्यम् । त्वया महोपकारः कृत इति स्तोत्रं वा कर्तव्यम् । सदृशप्रत्युपकाराभावेनानुतापोवा कर्तव्यः । तदिहाय शत्रून् । प्रति वक्तव्यमुक्तवान् । अब्रवीदित्यनेन यथा सुनिविष्टमुक्तं तथा मनसि सुलग्नं यथा भवति तथा व्यक्तमुक्तवान् । एवमुक्तवन्तं प्रत्यपि परुषोक्तौ हेतुद्रय माह-रावण इत्यादि । रावयति रोदयतीति रावणः । परहिंसायां जगद्विदितः। रौतीति रवणः स एव रावणः। स्वार्थेऽणप्रत्ययः। अस्थाने पदं दत्त्वा स्वय मप्याकन्दन्नित्यर्थः । कालचोदितः । भ्राता रामं शरणं गच्छेत्युक्तवान् कालस्तत्र कर्तव्यामति स्वयं द्विधा भज्येयमिति । अतः स्वप्रकृत्यनुगुणं काल धनानि श्रेष्ठवस्तुनि निवेद्य समर्प ॥ १४ ॥ इति श्रीमहेन्चरतीर्थविरचितायां श्रीरामायणतत्वदीपिकाख्यायो युद्धकाण्डव्याख्यायां पचदशः सर्गः ॥१५॥ सुनिविष्टमिति । सुनिविष्टं सुष्टु विनीतिनिष्ठमिति यावत् ॥१॥
For Private And Personal Use Only