________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kalassagarsun Gyanmandir
बा.रा.भू.
दुयित्वमुक्तम् ॥८॥न तातेति । अनेन निकृष्टवयस्त्वमुक्तम् । बालत्वेऽपि कस्यचित्सुमतिः सम्भवति साऽपि नास्तीत्याह अयापीति । अविपकी .प.को बुद्धिः अपरिणतबुद्धिः । निश्चयाभावं दर्शयति तस्मादिति । विप्रलप्तं विप्रलपितम् ॥९॥ न केवलं स्वाज्ञानस्य स्वविनाश एव फलं किन्तु पिता विनाशोऽपीत्याह-पुत्रेति । हे इन्द्रजित् ! त्वं पुत्रप्रवादेन पुत्रप्रसिद्धया । इत्थंभावे तृतीया। मित्रस्य मुखमिव मुखं यस्य सः तथोक्तः । मित्रवद्भासमान
न तात मन्त्रे तव निश्चयोऽस्ति बालस्त्वमद्याप्यविपक्कबुद्धिः । तस्मात्त्वया ह्यात्मविनाशनाय वचोऽर्थहीनं बहु विप्रलप्तम् ॥ ९॥ पुत्रप्रवादेन तु रावणस्य त्वमिन्द्रजिन्मित्रमुखोऽसि शत्रुः। यस्येदृशं राघवतो विनाशं निशम्य मोहादनुमन्यसे त्वम् ॥ १०॥ त्वमेव वध्यश्च सुदुर्मतिश्च स चापि वध्यो य इहानयत्त्वाम् । बालं दृढ़ साहसिक च योऽद्य प्रावेशयन्मन्त्रकृतां समीपम् ॥ ११॥ मूढः प्रगल्भोऽविनयोपपन्नस्तीक्ष्णस्वभावोऽल्पमतिर्दुरात्मा । मूर्ख स्त्वमत्यन्तसुदुर्मतिश्च त्वमिन्द्रजिद् बालतया ब्रवीषि ॥ १२॥ को ब्रह्मदण्डप्रतिमप्रकाशानर्चिष्मतः कालनिकाश
रूपान् । सहेत बाणान यमदण्डकल्पान समक्षमुक्ताद युधि राघवेण ॥ १३ ॥ इत्यर्थः । शरसि । शत्रत्वमेवोपपादयति-यस्येति । त्वं यस्य रावणस्य ईदृशं पुत्रमित्रविनाशपर्यन्तं राघवतो रामात विनाशं निशम्य मन्मुखा च्छुत्वा मोहादनुमन्यसे तस्य रावणस्य त्वं शवरसीत्यर्थः। मोहादित्यनेन मित्रमुखत्वमुपपादितम् । अनुमन्यस इत्यनेन शजत्वम् ॥१०॥ एवमनु । मोदनस्य दण्डमाह-त्वमेवेति । त्वमेव वध्यः दण्डयः किमित्यर्थः । किन्तु यस्त्वाम् इह सभायाम् आनयत् प्रावेशयञ्च स एव वध्यः ॥११॥ सुदुर्मति ॥ श्वेति चशब्ददर्शितान् दोषानाह-मूढ इति । मूढः कृत्याकृत्यविवेकशून्यः। प्रगल्भ धृष्टः, पण्डितम्मन्य इति यावत् । अविनयोपपन्नः अशिक्षित इत्यर्थः। तीक्ष्णस्वभावः क्रूरप्रकृतिः। दुरात्मा दुष्टान्तःकरणः। मूर्खः अविमृश्यकारी । अत्यन्तसुदुर्मतिः। प्रहस्तो दुर्मतिः महापादिः सुदुर्मतिः। त्वमत्यन्त सुदुर्मतिरित्यर्थः । त्वमेवम्भूतोऽसि अतस्त्वं बालतया ब्रवीषि इति सम्बन्धः॥१२॥दुर्मतित्वे हेतुमाह-क इति । ब्रह्मदण्डप्रतिमप्रकाशान् ब्रह्मदण्डसदृश पुत्रप्रवादेन पुत्रव्यपदेशेन रावणस्य त्वं मित्रमुखः मित्रबद्भासमानःशत्रुरसि । कुतः! यस्येति । यस्प रावणस्य ॥१०॥ ११॥ मदः जहः । प्रगल्भः पण्डितम्मन्यः । अविनयोपपन्नः, सद्भिरशिक्षित इत्यर्थः । मुर्खः अविवेकी ॥ १२ ॥ ब्रह्मदण्डप्रतिमप्रकाशान ब्रह्मशापतुल्यमभावान् । कालनिकाशरूपान मृत्युतुल्यरूपान् ॥ १३ ॥
For Private And Personal Use Only