________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्रमौ" इत्यमरः । शौर्येण साहसिक्येन । धैर्येण स्थैर्येण । तेजसा गर्वेण । पराभिभवासहनेनेति यावत् ॥ ३ ॥ एवं रावणं प्रत्युक्त्वा विभीषणं निर्भर्त्स यति--किन्नामेत्यादिना । राक्षसेति हीनसम्बोधनमाग्रहकृत्यम् । तौ राजपुत्रौ किं नाम न किंचिदपि, अतिदुर्बलावित्यर्थः । कुत इत्यत्राह - अस्माकमेकेनेति । अस्माकं मध्ये सुप्राकृतेन अतिक्षुद्रेणापि एकेन राक्षसेन एतौ निहन्तुं शक्यौ हि । अतः भीरो! कुतोऽस्मान् भीषयते स्वयं भीतोऽस्मान् भीष यसे । नास्माकं किंचित् भयमिति भावः ॥ ४ ॥ भयाभावे पूर्ववृत्तं संवादयति- त्रिलोकेति । नन्वित्यामन्त्रणे । त्रिलोकनाथ इत्यैश्वर्यमुक्तम् । देवराज इति
किं नाम तौ राक्षस राजपुत्रावस्माकमेकेन हि राक्षसेन । सुप्राकृतेनापि रणे निहन्तुं शक्यौ कुतो भीषयसे स्म भीरो ॥ ४ ॥ त्रिलोकनाथो ननु देवराजः शक्रो मया भूमितले निविष्टः । भयार्दिताश्चापि दिशः प्रपन्नाः सर्वे तथा देवगणाः समग्राः ॥ ५ ॥ ऐरावतो विस्वरमुन्नदन स निपातितो भ्रमितले मया तु । विकृष्य दन्तौ तु मया प्रसह्य वित्रासिता देवगणाः समग्राः ॥ ६ ॥ सोऽहं सुराणामपि दर्पहन्ता दैत्योत्तमानामपि शोकदाता । कथं नरेन्द्रात्मजयोर्न शक्तो मनुष्ययोः प्राकृतयोः सुवीर्यः ॥ ७ ॥ अथेन्द्रकल्पस्य दुरासदस्य महौजसस्तद्वचनं निशम्य । ततो महार्थे वचनं बभाषे विभीषणः शस्त्रभृतां वरिष्ठः ॥ ८ ॥
सैन्यसामग्री दार्शता । मया हेतुना । भूमितले निविष्टः स्थितः । निवेशित इत्यर्थ इत्यन्ये ॥ ५ ॥ ऐरावत इति । उन्नदन् उद्घुष्यन् । विकृष्य उत्पाट्य । ताभ्यां सर्वे देवगणाः वित्रासिताः । हेतुभेदेन देवानां भयान्तरमत्रोक्तमिति न पुनरुक्तिः ॥ ६॥ स्ववृत्तप्रदर्शनफलमाह - सोऽहमिति । मनुष्ययोरिति देवा सुरव्यावृत्तिः । प्राकृतयोरिति इन्द्रव्यावृत्तिः । नरेन्द्रात्मजयोरिति बाल्योक्तिः । कथं न शक्तोऽस्मि अतः कुतो भीषयते इति पूर्वेणान्वयः ॥७॥ अथेति । || इन्द्रकल्पस्येत्यादिविशेषणत्रयेण पूर्वोक्तस्य यथार्थत्वमुक्तम् । शस्त्रभृतां वरिष्ठ इत्यनेनाभीरुत्वमुक्तम् । महार्थमित्यनेन वक्ष्यमाणार्थस्येन्द्रजिता दे राक्षस! राजपुत्रौ किंनाम न किञ्चिदपि दुर्बलावित्यर्थः । कुत इत्यत्राह - अस्माकमिति ॥ ४ ॥ भूमितले भूतले । निविष्टः निवेशितः । कारागृहे निवद्ध इत्यर्थः ॥ ५ ॥ विकृष्य उत्कृष्य ।। ६-९ ॥
For Private And Personal Use Only