________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
रा. अ
क्षयवृद्धीः अनुमृश्य आलोच्य । क्षम युक्तं स्वामिहितं च वदेत् । परस्य क्षये स्ववृद्धौ यानम्, परस्य वृद्धौ स्वस्य क्षये सन्धिम् परस्य स्वस्य च साम्ये टी.यु.का.
आसनं च स्वामिने कथयेदित्यर्थः । अत्र प्रकृते परस्य वृद्धेः रावणस्य नगरदहनतनयनाशादिना क्षयस्य दर्शनाच सीताप्रदानेन सन्धिरेव साधुरिति पास शमन्विभिर्भवत्स्वामिने निवेदनीयमिति भावः ॥२२॥ इति श्रीगोविन्दराजवि० श्रीरामायण रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने चतुर्दशः सर्गः॥१४॥||
बृहस्पतेस्तुल्यमतेर्वचस्तनिशम्य यत्नेन विभीषणस्य । ततो महात्मा वचनं बभाषे तत्रेन्द्रजिनैर्ऋतयोध मुख्यः ॥१॥ किं नाम ते तात कनिष्ठवाक्यमनर्थकं चैव सुभीतवच्च । अस्मिन् कुले योऽपि भवेन्न जातः सोऽपीदृशं नैव वदेन कुर्यात् ॥२॥ सत्त्वेन वीर्येण पराक्रमेण शौर्येण धैर्येण च तेजसा च । एकः कुले
ऽस्मिन् पुरुषो विमुक्तो विभीषणस्तात कनिष्ठ एषः ॥ ३॥ अथेन्द्रजितो दुर्बुद्धिमुपन्यस्य दूषयति-वृहस्पतेरिति । ततो विभीषणवचनानन्तरम् । तत्र राक्षसेषु । यत्नेन निशम्य, असह्यतयेति भावः ॥ १॥ किन्नामेति । हे तात ते कनिष्ठवाक्यम् । अनर्थकं प्रयोजनशून्यम् । अनुष्ठातुरभावादिति भावः । सुभीतवत् सुभीतिमत् । किन्नाम कीदृशं जुगुप्सित मित्यर्थः । नामशब्दः कुत्सनद्योतकः। "नाम प्राकाश्यसंभाव्यकोषोपगमकुत्सने " इति वैजयन्ती । तदेवोपपादयति-अस्मिन्निति । आयोऽपिशब्द प्रश्रे। अपि ननु । अस्मिन् कुले पौलस्त्यवंशे। यो जातो न भवेत् । अन्यस्मिन् कुले यो जातःसोऽपि ईदृशं न वदेत् न कुर्यात् । ईदृग्वचनार्थ नानु तिष्ठेत् । ईदृग्वचनं वक्तृश्रोत्रोरुभयोरपि निन्दनीयम् । यद्वा हेतात कनिष्ठ! ते वाक्यं किं नाम, जुगुप्सितमित्यर्थः । जुगुप्सितत्वमेवाइ-आस्मानिति ।। न कुर्यात् न चिन्तयेत् । अत्र करोतिश्चिन्ताक्रियायां वर्तते । मुख्यस्य करणार्थस्यासम्भवात् सर्वधात्वर्थेषु करोत्यर्थस्य सम्भवाच ॥२॥ एतद्वाक्य मितत्स्वभावस्य सदृशमित्याह-सत्त्वेनेति। सत्त्वेन बलेन । वणि प्रभावेन । “वीर्य बले प्रभावे च" इत्यमरः । पराकमेण उद्योगेन । “शौर्योद्योगो परा, अथेन्द्रजितो दुर्बुद्धिमुपन्यस्य दूषयति-वृहस्पतरिति ॥१॥ तात! ते कनिष्ठवाक्यं किं नाम कीरशम्, गर्हितमित्यर्थः । सुभीतवत् सुभीतिमत्, आद्योऽपिशब्द प्रश्रे। अपि ननु । अस्मिन कुले पौलस्त्यवंशे यो जातो न भवेत् अन्यस्मिन कुले यो जातः सोऽपीदृशं नेव वदेव न कुर्यात् । करोते क्रियासामान्यत्वान्न चिन्तये रादित्यर्थः ॥ २॥ सत्त्वेन बलन, वीर्येण प्रभावेन, शौर्येण उत्साहेन, तेजसा पराभिभवसामथ्येन ॥३॥
For Private And Personal Use Only