________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भावः । सर्वैः सुहृद्भिः समेत्य ऐकमत्यं प्राप्येति यावत् । राजा भीमबलैः भूतैः गृहीतः पुरुष इव निगृझ बलात्कृत्य यावत्केशग्रहणात् शत्रुभिः केशग्रहणपर्यन्तं परिरक्षितव्यः । “आकेशग्रहणान्मित्रमकृत्येभ्यो निवर्तयेत्” इति प्रसिद्धिं दर्शयति हिशब्दः । यद्वा आकेशग्रहणान्निगृह्य परिरक्षितव्यः अकार्यप्रवृत्तोऽयं राजा केशेष्वाकृष्यापि निवारणीय इत्यर्थः ॥ १९ ॥ संहारिणा विनाशकेन । राघवसामरेण लक्ष्मणसमुद्रेण । प्रच्छाद्यमानः । ततः काकुत्स्थपातालमुखे रामवडवाग्निमुखे । “पातालं वडवाग्नौ च" इति नानार्थरत्नमाला । पतन् सोऽयं राजा तरसा आरम्भकाल एव तारयितुं भवद्भिः संहारिणा राघवसागरेण प्रच्छाद्यमानस्तरसा भवद्भिः । युक्तस्त्वयं तारयितुं समेत्य काकुत्स्थपातालमुखे पतन सः ॥ २० ॥ इदं पुरस्यास्य सराक्षसस्य राज्ञश्च पथ्यं ससुहृज्जनस्य । सम्यग्वि वाक्यं स्वमतं ब्रवीमि नरेन्द्रपुत्राय ददाम पत्नीम् ॥ २१ ॥ परस्य वीर्ये स्वबलं च बुदध्वा स्थानं क्षयं चैव तथैव वृद्धिम् । तथा स्वपक्षेऽप्यनुमृश्य बुद्धया वदेत् क्षमं स्वामिहितं च मन्त्री ॥ २२ ॥ इत्यार्षे श्रीरामायणे वाल्मी० श्रीमद्युद्धकाण्डे चतुर्दशः सर्गः ॥ १४॥ हस्तप्रदानेनोत्तारयितुम् । युक्तः अर्हः । अत्र प्रच्छाद्यमानः पतन्निति प्रयोगौ वर्तमानसामीप्यात्, लक्ष्मणः प्रथमं ग्रहीष्यति ततो रामः अतो न जीवितुं शक्यम् । अतः प्रथममेव राजा निवर्तनीय इति भावः । सुवारिणेति पाठान्तरम् । तत्र सागरपक्षे सुजलेनेत्यर्थः । राघवपक्षे वारः स्यन्दनः शोभनो वारः सुवारः सोऽस्यास्तीति सुवारी तेन । “सूर्यादिदिवसे वृन्दे कुन्दवृक्षे परिक्रमे। मद्यपात्रे स्यन्दने च वारो वरुणसेनयोः" इति निघण्टुः॥२०॥ मा दिशतु रामाय राजा वैदेहीम्, वयमेव बलाद्धि ददामः यदि हितमाकाङ्क्षितमित्याह- इदमिति । स्वमतं स्वस्य सिद्धान्तभूतम् । इदंशब्दार्थमाह नरेन्द्रेति ॥ २१ ॥ वयमपि सम्यगेव ब्रूमः शत्रुर्हन्तव्य इति तत्राह - परस्येति । मन्त्री परस्य शत्रोः वीर्य स्वबलं स्वराजबलं च बुद्ध्वा, स्वराजपरराजयो सर्बलं परीक्ष्येत्यर्थः । तथैव बलाबलपरीक्षावत् परस्य स्थानं संपदां साम्यम्, क्षयं वृद्धिं च बुद्रध्वा । तथा परस्येव स्वपक्षेऽपि बुद्धया सूक्ष्मदृष्टया स्थान इत्यर्थः ॥ १९ ॥ सुवारिणा राघवसागरेणेति पाठः । शोभनो वारः वृन्दं सोऽस्यास्तीति सुवारी तेन सागरपक्षे तु सुवारिणा शोभनजलेन ॥ २० ॥ इदमिति । ददामति प्रार्थनायां लोट् ॥ २१ ॥ परस्येति । स्वबलं स्वबुद्धिबलम् । स्थानं पूर्वावस्थासाम्यम् । क्षयम् पूर्वावस्थातः शक्तिसिद्धयोरपचयः क्षयः । बृद्धिम् पूर्वावस्थात उपचयो वृद्धिः ॥ २२ ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्वदीपिकाख्यायां युद्धकाण्डव्याख्यायां चतुर्दशः सर्गः ॥ १४ ॥
For Private And Personal Use Only