________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१८४
पतगोत्तमेभ्यः गरुडेभ्यः । नरेन्द्रपुत्रात् मानुपबालादित्यर्थः । कथं नो भवितेत्यपि ध्वन्यते ॥ ९॥महात्मा महाबुद्धिः । धर्मार्थकामेषु, स्वामिन इति शेषः ॥१०॥ प्रहस्तेति । महोदरोक्तत्वेन पूर्वमनुक्तमप्यनेनावगम्यते पूर्वमुक्तमिति । अर्थजातं यथा त्रवीथ तथा रामं प्रति तत्कार्यजातं न शक्यम्, कर्तुमिति शेषः । अधर्म बुद्धेः स्वर्गं प्रति गतिर्यथा न शक्या तथैवेत्यर्थः ॥ ११ ॥ अशक्यत्वमेव विशदयति- वधस्त्विति । अर्थविशारदस्य कार्यदक्षस्य रामस्य वधः, अप्लवस्य न यक्षगन्धर्वमहोरगेभ्यो भयं न सङ्ख्ये पतगोत्तमेभ्यः । कथं नु रामाद् भविता भयं नो नरेन्द्रपुत्रात् समरे कदाचित् ॥ ९ ॥ प्रहस्तवाक्यं त्वहितं निशम्य विभीषणो राजहितानुकांक्षी । ततो महात्मा वचनं बभाषे धर्मार्थ कामेषु निविष्टबुद्धिः ॥ १० ॥ प्रहस्त राजा च महोदरश्च त्वं कुम्भकर्णश्च यथाऽर्थजातम् । ब्रवीथ रामं प्रति तन्न शक्यं यथा गतिः स्वर्गमधर्मबुद्धेः ॥ ११॥ वधस्तु रामस्य मया त्वया वा प्रहस्त सर्वैरपि राक्षसैर्वा । कथं भवेदर्थ विशारदस्य महार्णवं तर्तुमिवाप्लवस्य ॥ १२ ॥ धर्मप्रधानस्य महारथस्य इक्ष्वाकुवंशप्रभवस्य राज्ञः । प्रहस्त देवाश्च तथाविधस्य कृत्येषु शक्तस्य भवन्ति मूढाः ॥ १३ ॥ तीक्ष्णा नता यत्तव कङ्कपत्रा दुरासदा राघवविप्र मुक्ताः । भित्त्वा शरीरं प्रविशन्ति बाणाः प्रहस्त तेनैव विकत्थसे त्वम् ॥ १४ ॥
नौरहितस्य महार्णवं तर्ते तरितुम् शक्तिरिति शेषः । शक्तिरिव कथं भवेत् न कथंचिदपि संभवतीत्यर्थः । एतेन वध्यौ दशरथात्मजावित्युक्त स्योत्तरमुक्तम् ॥१२॥ उक्तमर्थ कैमुतिकन्यायेन द्रढयति धर्मेति । धर्मप्रधानस्य "अप्यहं जीवितं जह्याम्" इत्युक्तरीत्या धर्मविरोधे तृणीकृतसकलेतर | पुरुषार्थस्य । महारथस्य रणे आत्मानं सारथिं च रक्षन् शत्रुसंहारक्षमो महारथः तस्य । “आत्मानं सारथिं चाश्वान् रक्षन् युद्धयेत यो नरः । स महारथ संज्ञः स्यादित्याद्दुर्नीतिकोविदाः ॥” इत्युक्तेः । इक्ष्वाकुवंशप्रभवस्य जन्मसिद्धनिरतिशय पराक्रमस्य । राज्ञः सकलप्रकृतिमण्डलर अकस्य । तथाविधस्य | विराधकबन्धवालिप्रभृतिवधविदितवैभवस्य । शक्तस्य कार्यदक्षस्य । रामस्य कृत्येषु रणव्यापारेषु विषये देवाश्च मूढा भवन्ति अविदिततदीयव्यापारा भवन्तीत्यर्थः । किं पुनर्भवादृशा इति भावः ॥ १३ ॥ तीक्ष्णाः तीक्ष्णायाः झटितिभेदनक्षमा इत्यर्थः । नताः नतपर्वाणः, ऋजव इत्यर्थः । सपदि प्रहस्तेति । तत्र शक्यम् कर्तुमिति शेषः । स्वर्गे स्वर्गमुद्दिश्य ॥ ११ ॥ अर्थविशारदस्य कार्यनिपुणस्य । तर्तुम्, शक्तिरिति शेषः ॥ १२-१४ ॥
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only