________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
पा.रा.भ.रत्यक्तव्य एवेति भावः। राजनिति सान्त्वोक्तिः॥२॥न केवलं तवैवानर्थहेतुःसीता किंतु तावकीनस्य सर्वस्येत्याह-यावदिति । “यावत्पुरानिपातयो घाटी.मु.का.
लट्" इति लट्र । तावदिति शेषः ॥३॥ यावदिति । स्पष्टम् ॥ ४॥ भित्त्वेति । तावच्छन्दो वाक्यालकारे । प्राणान्ते भवाः प्राणान्तिकाः, प्राणस. १४ हारिण इत्यर्थः । साक्षादाजानं प्रत्युक्तेरयुक्तत्वात् प्रहस्तं प्रति प्राणहरत्वोक्तिः। विकत्थसे आत्मानं वापसे । “कत्थ श्वापायाम्" इति धातुः॥५॥ यावन्न लङ्कां समभिद्रवन्ति वलीमुखाः पर्वतकूटमात्राः। दंष्ट्रायुधाश्चैव नखायुधाश्च प्रदीयतां दाशरथाय मैथिली ॥३॥ यावन्न गृह्णन्ति शिरांसि बाणा रामरिता राक्षसपुङ्गवानाम् । वजोपमा वायुसमानवेगा: प्रदीयतां दाश स्थाय मैथिली ॥ ४॥ भित्त्वा न तावत् प्रविशन्ति कायं प्राणान्तिकास्तेऽशनितुल्यवेगाः । शिताः शरा राघव विप्रमुक्ताः प्रहस्त तेनैव विकत्थसे त्वम् ॥ ५॥ न कुम्भकर्णेन्द्रजितौ न राजा तथा महापार्श्वमहोदरौ वा । निकुम्भ कुम्भौ च तथाऽतिकायः स्थातुं न शक्ता युधि राघवस्य ॥६॥ जीवंस्तु रामस्य न मोक्ष्यसे त्वं गुप्तः सवित्राप्यथवा मरुद्भिः। न वासवस्याङ्कगतो न मृत्योर्नभो न पातालमनुप्रविष्टः ॥७॥ निशम्य वाक्यं तु विभीषणस्य ततः
प्रहस्तो वचनं बभाषे। न नो भयं विद्म न दैवतेभ्यो न दानवेभ्यो ह्यथवा कुतश्चित् ॥ ८॥ रामानु०-यावन्न गृहन्ति शिरांसि वाणा इत्यतः परं केषुचित् कोशेषु दृश्यमानः भित्त्वा न तावत् पविशन्ति कायमिति श्लोकः प्रहस्तोद्देशेन प्रवृत्तस्य तीक्ष्णा न तावदित्यस्यानन्तरं ।। द्रष्टव्यः । अन्यथा प्रकरणविरोधः स्यात् ॥ ५॥ तर्हि कुम्भकर्णादयो रामं वारयिष्यन्तीत्यवाह-न कुम्भकर्णेति । इदमपि प्रहस्तं प्रति वचनम् ॥६॥ राज्ञः असामध्ये विशिष्य दर्शयति-जीवनिति । रामस्य रामात् । विभक्तिव्यत्ययः । जीवन विमोक्ष्यसे प्राणपर्यन्तं न त्वां रामो विमोक्ष्यतीति भावः । अब गतोऽपि पुत्रभावेनाकस्थितोऽपीत्यर्थः । मृत्योरित्यत्रापि अङ्कगत इत्यनुषज्यते । नभः पातालं वाऽनुप्रविष्टः न मोक्ष्यस इति योजना ॥७॥ अस्माकं कुतश्चित् भयं न विद्य। विसर्गलोपश्चान्दसः। एवं सामान्येनोक्त्वा विशिष्य दर्शयति न देवतेभ्य इत्यादिना । भयं न विद्म इति सर्वत्रान्वति ॥ ८॥ सः अतिकायः, पञ्चाङ्गुलीपञ्चशिराश्चासौ अतिकायश्च तथाविधः । चिन्ताविषः दुःखकलुषितचिन्तैव विषं यस्य सः। सुस्मितमेव तीक्ष्णा दंष्ट्रा यस्य सः एतादृश सीतामहाहिस्त्वया केन हेतुना घृतः, अनर्थसम्पादनाय गृहीत इत्यर्थः ॥२-४॥ मित्त्वेति । प्राणान्तिकाः प्राणान्तकराः॥५-१०॥
For Private And Personal Use Only