________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
देवानामप्यजय्योऽस्मि कथं मनुष्यादीनां जय्यो भविष्यामीत्याशयेनाइ-न वासवेनेति । सहस्रचक्षुषेति तस्याभिमानातिशयोक्तिः । युषा युद्धनल न शक्योऽस्मि । जेतुमिति शेषः । उत्तरार्धन कुवेरेगापि न जेतुं शक्य इति सिद्धम् । अत्र वंशस्यवृत्तम् ॥२१॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नकिरीटाल्याने युद्धकाण्डव्याख्याने त्रयोदशः सर्गः॥१३॥
न वासवेनापि सहस्रचक्षुषा युधाऽस्मि शक्यो वरुणेन वा पुनः । मया त्वियं बाहुबलेन निर्जिता पुरी पुरा वैश्रवणेन पालिता ॥२१॥ इत्याचे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे त्रयोदशः सर्गः ॥१३॥ निशाचरेन्द्रस्य निशम्य वाक्यं स कुम्भकर्णस्य च गर्जितानि । विभीषणो राक्षसराजमुख्यमुवाच वाक्यं हितमर्थ युक्तम् ॥१॥ वृतो हि बाह्वन्तरभोगराशिश्चिन्ताविषः सुस्मिततीक्ष्णदंष्ट्रः। पञ्चाङ्कलीपञ्चशिरोऽतिकायःसीतामहाहि
स्तव केन राजन् ॥२॥ एवं दुर्मन्त्रिभिः प्रभुचित्तानुसारेण कथिते तदसहमानो विभीषणः परमार्थ हितमुपदिशति-निशेति । स कुम्भकर्णस्येत्यत्र स इति छेदः । गर्मितानि। निरर्थकवचनानि । अर्थयुक्तं कर्तव्यार्थबोधयुक्तम् ॥ १॥ अदेया न यया सीतेति रावणवचनं प्रति वक्तुं सीतामहित्वेन रूपयति-वृत इति । बाह्वन्तरं वक्षः तदेव भोगराशिः फणापरिणादो यस्य स तथा । यद्वा बाह्वन्तरे वक्षसि भोगराशिः सौख्यसम्पत् सेव बावन्तरभोगराशिः तिर्यक् प्रसारितयोबाहो र्यदन्तरं तत्प्रमाणो भोगराशिः शरीरपरिणाहो यस्येत्यावृत्त्या रूपकनिर्वाः । चिन्तैव विषं विरोधिप्राणहरत्वात् तत् यस्य सः चिन्ताविषः। सुस्मितं स्वाभाविकमन्दस्मितम् तदेव शुभ्रत्वेन कामुकहृदयदारित्वेन च तीक्ष्णा इंट्रा यस्य सः सुस्मिततीक्ष्णदंष्ट्रः। चिन्तावशेन बदनोपधानीकृतपाणेः पञ्चा
इल्य एवं पञ्चशिरोरूपातिकायो यस्य सः पञ्चाङ्गुलीपञ्चशिरोतिकायः। सीतामहाहिः स्पर्शमात्रेण मारकाहिः । तव त्वया केन हेतुना वृतः, सर्वथा KIनवासवेनेति । वासवेन पयाजेन शक्पोऽस्ति पगेनापि तथैवेत्यर्थः ॥ २१॥ इति श्रीमहेश्वरतीर्थ श्रीरामायण पुद्धकाण्डव्याख्यायां त्रयोदशः सर्गः ॥ निशाचरेन्द्रस्येति । अर्थयुक्तं कर्तब्यार्थबोध नित्यर्थः ॥ १॥ परावरजो विभीषणः कुम्भकर्णादिमजल्पितमसहमानस्सन् परमहितमुपदिशति-तो दीति । बाद न्तरमोगराशिः बान्तरं बाहुमध्यं तदेव भोगराशिः सर्पशरीरपरिणाहो पस्प सः । पवाकुल्य एव पश्च शिरांसि यस्य सः पचाकुलीपक्षशिरा अतिकायो यस्य
For Private And Personal Use Only