________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
टी.यु.कां.
एतत्क्षणमारभ्य । कियाविशेषणमेतत् । तदा गमनकाले एव फलिष्यति विशीगों भविष्यति इति एवंप्रकारस्य झापस्य, झापादित्यर्थः। प्रसभं नारो पय इत्यन्वयो न बलादित्यनेन पोनरुक्त्यात् । किंतु प्रसभं शापस्येत्यन्वयः। वैदेहीमित्यनेन महाकुलप्रसूततया तच्छापादपि भीतोऽस्मीत्यवगम्यते
१४॥१५॥रामानु०-अवेत्यादि । तदा ते शतवा मूर्धा फलिष्यति न संशय इत्यनेन रावणविषये रम्भानिवन्धननलकूपरशाचे विद्यमानेऽपि तस्य प्राकृतदेवत्वात्तत्पुत्रत्वाञ्च तच्छाप मनाढत्प पुनिकस्थलायामापि प्रवृत्तं रावणं पश्चापितामहा शप्तवान् । अत एव रावणोऽप्यनुलनीयं पितामहवाक्पमेवोक्तवानित्यवगम्यते । इत्पदामति । शापस्य भीतः शापाद्रीतः॥१३-१५॥
सागरस्येव मे वेगो मारुतस्येव मे गतिः। नैतद्दाशरथिर्वेद ह्यासादयति तेन माम् ॥ १६॥ यस्तु सिंहमिवासीनं सुप्तं गिरिगुहाशये। क्रुद्धं मृत्युमिवासीनं प्रबोधयितुमिच्छति ॥ १७॥ न मत्तो निशितान बाणान दिजिह्वानिव पन्नगान् । रामः पश्यति सङ्ग्रामे तेन मामभिगच्छति ॥ १८॥ क्षिप्रं वजोपमैर्बाणैः शतधा कार्मुकच्युतैः । राममादीपयिष्यामि उल्काभिरिव कुञ्जरम् ॥ १९॥
तच्चास्य बलमादास्ये बलेन महता वृतः । उदयन सविता काले नक्षत्राणामिव प्रभाम् ॥२०॥ एवं न युक्ता बलात्कर्तुं सीतेत्युक्त्वा अस्माभिः सह कुम्भकर्णेन्द्रजितो योत्स्यत इति महापार्श्ववचनस्यासहायशूरे मयि विद्यमाने किमन्येनति परिहारमाह-सागरस्येति । एतत् वेगगतिमत्त्वम् । आप्तादयति, सेनामिति शेषः । स्वार्थण्यन्तो वा । तेन अवेदनेन ॥ १६॥ स्वप्रभावावेदनेनादित माइ-यस्त्विति । सुप्तं सिंहमिवासीनं सिंहमिव स्थितमित्यर्थः । मृत्युमित्यत्रापि सुप्तमित्यनुषज्यते । अन्यथा प्रबोधयितुमिच्छतीत्यनेनानन्वयः।कुद्धं | कोपाईम्। यथा सुप्तं सिंह मृत्युं वा प्रबोधयितुमिच्छन् पुरुषोऽनभिज्ञ एव । तद्वत् तूष्णी स्थितं मां प्रकोपयन रामोऽपीति भावः ॥१७॥रामो मत्पराक्रम निवेत्त्येव तत्तिष्ठतु मदाणवेग वा जानाति, नैवेत्याह-नेति । लेलिहानतादशा द्योतयितुं द्विजिह्वानित्युक्तम् ॥ १८॥आदापयिष्यामि सन्तापयिष्यामि उल्काभिः निर्गतज्वालकाष्टः । कुञ्जरपलायनार्थमुल्का-प्रदर्शयन्तीति प्रसिद्धिः॥ १९॥ एवं रामं पलाययित्वा तस्य सेना इनिष्यामीत्याइ-तञ्चेति ।। आदास्ये खण्डयिष्ये। "दो अवखण्डने " इति घातुः॥२०॥
.
For Private And Personal Use Only