SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyanmandir विचार्येत्यर्थः ॥१॥ य इति । खलुक्यालङ्कारे । दुष्करं सीताहरणं श्रमेण कृत्वा तत्सम्भोगमकुर्वाणस्त्वं क्षौद्राकाङ्क्षयाऽतिगहनं वनं प्रविश्य तदपिवन । जन इव मूढोऽसीति भावः ॥२॥ शत्रुषु विद्यमानेष्वधर्मावहमिदं कथं कुर्यामित्यत्राह-ईश्वरस्यति । सर्वनियन्तुस्तव को वा नियन्ताऽस्ति । अतो धर्मान भेतव्यमिति भावः । शत्रून् मूर्धस्वाक्रम्य तान् तृणीकृत्येत्यर्थः । अर्थान्तरं तु रामस्येश्वरः कोऽस्ति । स निग्रहीतुं न शक्य इत्यर्थः । शत्रून् । यः खल्वपि वनं प्राप्य मृगव्यालसमाकुलम् । न पिबेन्मधु सम्प्राप्तं स नरो बालिशो भवेत् ॥ २॥ ईश्वरस्येश्वरः कोऽस्ति तव शत्रुनिबर्हण । रमस्व सह वैदेह्या शत्रूनाक्रम्य मूर्धसु ॥३॥ बलात् कुक्कुटवृत्तेन वर्तस्व सुमहाबल । आक्रम्याक्रम्य सीतां वै तथा भुक्ष्व रमस्व च ॥ ४॥ रामम् । पूजायां बहुवचनम् । दशस्वपि मूर्धस्वाकम्य शिरसा प्रणम्येत्यर्थः । वैदेह्या सह रमस्त वैदेह्यां यथा स्वभर्ता रमते तथा त्वमपि स्वदार रमस्व । वैदेया सह रामं प्रणम्येति वा योजना ॥ ३ ॥ किं करोमि सा हि न मामभिलपतीत्यत्राह-चलादिति । कुक्कुटवृत्तेन कुक्कुटवृत्त्या । भावे तः। कुक्कुटो वञ्चनामार्गेण स्वदयितामाक्रमते । तथा त्वमपीत्यर्थः । कुक्कुटानां कामुककुक्कुटसङ्गे कोपो जातिधर्मः । तथा सीतामनुभव यथा कुक्कुटाः सुखिनः तददित्यर्थः । यथाऽऽह वात्स्यायना-"क्रुद्धामाकम्य भोगस्तु कौक्कुटः सोऽपि सौख्यदः।" इति ।भुक्ष्व भोगं भज। रमस्व निर्वि चारो भवेत्यर्थः । मुनिहृदयं व कुक्कुटवृत्तेनान्यत्र वर्तस्व सीतां तु बलात् मुश्व रक्ष । “भुज परिपालनाभ्यवहारयोः" इति धातुः । आत्मनेपद इत्यर्थः॥ १॥ दुष्करं सीताहरणं अमेण कृत्वा तत्सम्भोगमकुर्वाणस्त्वं मधुकांक्षया दुर्गमं वनं प्रविश्य तदपिवन जन इव मूटोऽसीति भावः ॥२॥३॥ अनङ्गी कारे कथमनुभव इत्यत्राह-बलादिति ।रमस्व सह वेदेोत्यादिसार्धश्लोकस्य वास्तवार्थस्तु-कुक्कुटवृत्तेनेत्यत्र कुक्कुटवृत्ने न इति छेदः। हे महाबल रावण ! वैदेह्या किम् अत आक्रम्याक्रम्य वा प्रकारान्तरेण वा ता वैदेही सीता न भुइक्व न रमस्व च। कुक्कुटवृत्ते कुक्कुटल्यापारे, चापल्य इति यावत निवर्तस्व किन्तु बलात स-प्रथमतः सीतानयन न कम्पम । कत चेत् सीताननुभयो मरतो न योग्य इति प्रोसाहपति-परते ॥ २॥ " सा किन स्पा सच किं न रम्ता गरीष सी केवलमीश्वरेच्छा " इत्यादिक्दीश्वरे छानुसारिता चेतरस्य, न तयेत्याह-ईश्वरस्येति ॥ ३॥ For Private And Personal Use Only
SR No.020795
Book TitleValmiki Ramayanam Part 05
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages772
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy