________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
बा.रा.भू.पीयन शरेणावश्यं निहनिष्यति । तस्य रामस्य ततस्तस्मादननात् । कर्तरि पष्ठी । रुधिरं स्वरुधिरं पास्यामि । कामम् अत्यर्थम् । आश्वस निश्वसेति टी.यु.का, ३५॥ ३८॥ 'आत्मानमरक्षन् परघाती वीरो न वाध्यः' इति न्यायेन परवत् स्वस्यापि वधे न कोऽप्यतिशय इत्यत्राह-वधेनेति । अत्राप्यर्थान्तरम् । वन
स्वविनाशेन दाशरथेः सुखावह जयं तव सकाशादाहतु यतिष्ये । रामं हत्वा रामं गत्वा । “हन हिंसागत्योः" इति धातुः । खादामि किं जीवामि ।
वधेन वै दाशरथेः सुखावहं जयं तवाहतुमहं यतिष्ये । हत्वा च राम सह लक्ष्मणेन खादामि सर्वान हरियूथमुख्यान ॥ ३९ ॥रमस्व कामं पिब चायवारुणी कुरुष्व कार्याणि हितानि विज्वरः । मयातु रामे गमिते यमक्षयं चिराय सीता वशगा भविष्यति ॥४०॥ इत्यार्षे श्रीरामायणे वाल्मीकीये श्रीमयुद्धकाण्डे द्वादशः सर्गः ॥ १२ ॥
रावणं क्रुद्धमाज्ञाय महापाश्वों महाबलः। मुहूर्तमनुसञ्चिन्त्य प्राञ्जलिर्वाक्यमब्रवीत् ॥१॥ किमिति काकुरनुसन्धेया ॥३९॥ रमस्वेति । अत्राप्यर्थान्तरम् । मया रामे विषये अक्षयं यथा भवति तथा गमिना प्रापिता इयं सीता रामस्य वशगा, भविष्यति । रमस्वेत्यादी काकुः ॥४०॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने द्वादशः सर्गः ॥१२॥ अथ रावणस्य दुर्मन्त्रिमतानुसारित्वमाह-रावणमित्यादि । क्रुद्धं कुम्भकर्णोक्तनयापरिज्ञानवचनेनेत्यर्थः । मुहूर्तमनुसश्चिन्त्य रावणकोधनिवारणोपायं आश्वसेति योजना । पुनरित्यादिलोकत्रयस्य वास्तवार्धस्तु-रणमूर्द्धनि स्वकर्तव्यं विज्ञापयति । पुनरिति । सः रामः एकेन शरेण मा प्रहत्य पुदितीयेन शरेणd निहनिष्यति ततः ततःप्रागेव तस्य रामस्य सम्बन्धि, वानराणामिति शेषः । रुधिरं पास्यामि काममाश्वस ॥ ३८॥ श्रीरामजये मम सामय नास्तीति विज्ञाप यति-बधे नेति । दाशरथेर्वधे सति तव सुखावह जयमाद न यतिष्ये किन्तु लक्ष्मणेन सह, रामं विनेति शेषः । सर्वान् हरियूथमुख्यान हत्वा खादामीति सम्बन्धः ॥ ३९ ॥ रमस्वेति । मया रामे विषये यमक्षयं गमिते सति सीता अवशम् अस्य विष्णुरूपरामस्य वशमागमिष्यतीति सम्बन्धः ॥५०॥ इति श्रीमहे ॥३५॥ श्वरतार्थविरचितायां श्रीरामाषणतत्वदीपिकाख्यायो युद्धकाण्डव्याख्यायां द्वादशः सर्गः ॥१२॥ रावणमिति । मुहूर्तमनुसचिस्प रावणक्रोधनिवारणोपायं विचार्य
सा-मुहर्तमनुसचिन्त्य अभियोक्ती मम विप्रियं तप्रियोती सर्वप्रियहानिः कथं कर्तव्यमिति प्यारया ॥१॥
For Private And Personal Use Only