________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
हंसास्तमतिक्रम्य गच्छन्तीति प्रसिद्धिः ॥ ३३ ॥ सापायं च त्वत्कृतं कर्मेत्याह- त्वयेति । महत् दुष्करम् । सापायमित्यर्थः । अप्रतिचिन्तितम् अनालोचितम् । इदं सीताहरणरूपं कार्यम् । सापायत्वमेवाह - दिष्ट्येति ॥ ३४ ॥ सर्वमेतन्महाराजेत्युपक्रम्योक्तमुपसंहरति--तस्मादिति । तर्हि का गतिरित्यपेक्षायां मयि जीवति कस्ते भार इत्याह अहमिति । अनषेति । त्वं तु निर्व्यसनो भवेत्यर्थः । समीकरिष्यामि नीत्यनीती तुल्ये करि ष्यामीत्यर्थः ॥ ३५ ॥ तदेवाह - अहमिति सार्धश्लोकः । विशांपते प्रजानां पते । अतिमानुषवैभवौ तौ कथं जय्यौ ? तत्राह यदीति । तौ दश
त्वयेदं महदारब्धं कार्यमप्रति चिन्तितम् । दिष्ट्या त्वां नावधीद्रामो विषमिश्रमिवामिषम् ॥ ३४ ॥ तस्मात्त्वया समारब्धं कर्म ह्यप्रतिमं परैः । अहं समीकरिष्यामि हत्वा शत्रूंस्तवानघ ॥ ३५ ॥ अहमुत्सादयिष्यामि शत्रूंस्तव विशांपते । यदि शक्रविवस्वन्तौ यदि पावकमारुतौ । तावहं योधयिष्यामि कुबेरवरुणावपि ॥ ३६ ॥ गिरिमात्र शरीरस्य महापरिघयोधिनः । नर्दतस्तीक्ष्णदंष्ट्रस्य विभयाद्वै पुरन्दरः ॥ ३७ ॥ पुनम स द्वितीयेन शरेण निह निष्यति । ततोऽहं तस्य पास्यामि रुधिरं काममाश्वस ॥ ३८ ॥
रथात्मजौ शक्रविवस्वन्तौ यदि स्याताम् तथापीत्यर्थः ॥ ३६ ॥ स्वस्य योधनसामर्थ्यविशेषं दर्शयति- गिरीति । गिरिमात्रशरीरस्य गिरिप्रमाण देहस्य । " प्रमाणे द्वयसचदप्रभूमात्रचः " इति मात्रच प्रत्ययः । पञ्चम्यर्थे षष्ठी ॥ ३७ ॥ शरवर्षिणो रामस्य पुरतः कथं स्थातुं शक्तस्तत्राह पुन रिति । सः रामः । पुनर्मी प्रथममेकेन शरेण निहत्य पुनरपि द्वितीयेन शरेण मां हनिष्यति । ततः तावदेवेत्यर्थः । अत्राश्लीलमपि ध्वन्यते । मां द्विती
यथा प्रपद्यन्ते तद्वदित्यर्थः ॥ ३३ ॥ भवत्वेवं मया किं चापलं कृतम् ? येन शत्रूणां मयि रन्धं स्यादत आह-त्वयेति । अप्रतिचिन्तितम् अविचारितम् | महत् प्राणावसानपर्यवसाथि इदं सीतापहरणरूपकार्य त्वया धूर्तसहायेनारब्धं कृतम् अतो रन्धं प्राप्तम् । तत् दैववशात्परिहृतमित्याह-दिष्टयेति ॥ ३४ ॥ त्वत्कृताकृत्य परिगणनेन किम् ? इदानीं सर्वे मच्छोर्येण प्रतिविधास्यामीत्याह तस्मादिति । अप्रतिमं तवाननुरूपम् परेर्मव्यतिरिक्तः, अप्रतिसमाधेयमिति शेषः ॥ ३५ ॥ रामस्य अधिकवलं विचिन्त्याह- अहमिति सार्धश्लोकमेकं वाक्यम् । यदीति । तो रामलक्ष्मणौ शक्रविवस्वन्तौ यदि स्थातामिति शेषः । तथापि योधयिष्यामि योत्स्या मीत्यर्थः ॥ ३६ ॥ ३७ ॥ पुनरिति । सः रामः मामेकेन शरेण प्रहृत्य पुनर्द्वितीयेन शरेण निहनिष्यति यदि ततः ततः पूर्वमेव तस्य रुधिरम् अहं कामं पास्यामि ।
For Private And Personal Use Only