________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
मा भूद्रामस्य समुद्रतरणे तव जये वा शक्तिः, तत्सहायस्यान्यस्य कस्यचित् स्यात्तत्राइ-नहीति । वानरैः सह सागरं तीा, आगन्तुमिति शेषः। रामा दन्यस्य शक्तिं न पश्यामि अतो मम निश्चयेन जय इत्यन्वयः॥२६॥ कामपरीतस्य कामेन विपरीतस्य, कामातुरतया विपरीतबुद्धेरित्यर्थः । परि देवितं परिदेवनम्, तद्वदुसङ्गन्तभाषणमित्यर्थः॥२७॥ “मन्त्रिभिहितसंयुक्तैः समथैर्मन्त्रनिर्णये । सहितो मन्त्रयित्वा यः कारम्भान् प्रवर्तयेत्" इत्युक्तो
न हि शक्तिं प्रपश्यामि जगत्यन्यस्य कस्यचित् । सागरं वानरैस्तीा निश्चयेन जयो मम ॥ २६ ॥ तस्य काम परीतस्य निशम्य परिदेवितम् । कुम्भकर्णः प्रचुक्रोध वचनं चेदमब्रवीत् ॥ २७ ॥ यदा तु रामस्य सलक्ष्मणस्य प्रसह्य सीता खलु सा इहाहृता । सकृत् समीक्ष्यैव सुनिश्चितं तदा भजेत चित्तं यमुनेव यामुनम् ॥ २८॥ सर्वमेत
न्महाराज कृतमप्रतिमं तव । विधीयेत सहास्माभिरादावेवास्य कर्मणः ॥ २९ ॥ त्तममन्त्रयितृभावे, "एकोऽर्थ विमृशत्रेको धर्म प्रकुरुते मनः। एकः कार्याणि कुरुते तमाहुर्मध्यमं नरम्॥" इत्युक्तमध्यममन्त्रयितृभावेऽपि नावस्थितोऽसी| त्याह-यदेति । यदा सकृत्समीक्ष्यैव स्वयमेव विचार्य। रामस्य सीता इहाहृता तदैव चित्तं कर्तृ यमुना यामुनं पर्वतमिव सुनिश्चितं सुनिश्चयं भजेत खलु। स एवास्माभिः सह विचारकालः । इदानीं विचारणं गते जले सेतुबन्धनमिति भावः ॥२८॥ तदा कृते किं स्यादित्यत्राह-सर्वमिति । कृतमिति कर्मणि|| न हीति । अत्रागन्तुमिति शेषः । जगति कस्यचिदन्यस्य शबोर्वानरैस्सह सागरं तीर्वा अत्रागन्तुं शक्तिं न पश्यामि हि, अतो निश्चयेन मम जयः इत्यन्वयः।। निश्चये न जये मम इति पाठे मम जये अन्यस्य कस्यचिदपि निश्चये शक्ति न पश्यामीति योज्यम नहि शक्तिमित्यस्य वास्तवार्थम्तु-अन्यस्य शक्ति न पश्यामि, राम विनेति शेषः । एवं निश्चये सति मम जयो नेत्यन्वयः ॥२६॥२७॥ ननु पूर्वमेव करणीयमेतदिदानी क्रियमाणं गतोदकसेतबन्धनसहशमिन्याह-यदा विति । यदा तु सलक्ष्मणस्य रामस्य सीता सकून्समीक्ष्यवास्माभिस्सहाविचार्य स्वयमेव विचारयतेहाहता तदेव खलु सकृत्समीक्ष ग वेलायामवासकृदस्माभिस्सह विचा पारितं चेच्चित्तं कर्तृ सुनिश्चितं निश्चयं भजेत खलु प्राप्नुयाद्धि । कथमिव यमुना यामुन यामुनारूपगिरिमिव । अस्माभिस्सह विचारम्य स एव काल इति फलितार्थः। सदेवेतन्मन्त्रकरणे फलमाह-सर्वमिति । कृतमिति कर्मणि निष्ठा । तब सर्वमेतत्कृतं मन्त्रात्मकं कर्म । अस्य सीताहरणरूपस्य कर्मणः आदावेव प्रागेव अस्माभिः सह विधीयेत विहितं चे इप्रतिममनुत्तमं भवेदित्यर्थः । तदा न कृतम् । अतोऽधुना क्रियमाणो विचारः गतजलसेतुबन्धसदृश इति भावः ॥ २८ ॥ २९॥
For Private And Personal Use Only