________________
Shri Mahavir Jain Aradhana Kendra
www.kobaith.org
Acharya Shri Kalassagarsu Gyanmandir
की.का.
बा.रा.म.
वसनं पुरातनचीरवसनम् । अतो न पूर्वपदेन पौनरुक्त्यम् । करुणा दुःखम् । परदुःखदुःखित्वं हि करुणा॥५-७॥ साम्प्रतमिति । ताम्प्रतम् इदानीतु ॥३६४० त्वां समीक्ष्य, स्थितस्येति शेषः । प्रीतिः, जातेति शेषः । अनुत्तमेत्यनेन देवकार्यकरणहेतुत्वात् पूर्वमपि काचित् प्रीतिरासीदिति द्योत्यते ॥८॥
सर्वमित्यर्धम् । सुखं पञ्चवटीवासादिकृतम् । दुःखं सीताहरणजम् ॥ ९॥ यत्त्वयेत्यादिसार्घश्चोकषट्कमेकान्वयम् । ब्राह्मणार्थे ऋषिजनरक्षणार्थ, कैकेयीवचने युक्तं वन्यमूलफलाशिनम् ॥ ७॥ साम्प्रतं सुसमृद्धार्थ समित्रगणबान्धवम् । समीक्ष्य विजितारिं त्वां मम प्रीतिरनुत्तमा ॥ ८॥ सर्व च सुखदुःखं ते विदितं मम राघव ॥ ९॥ यत्त्वया विपुलं प्राप्तं जनस्थानवधादि कम् । ब्राह्मणार्थे नियुक्तस्य रक्षितुः सर्वतापसान् ॥ १०॥ रावणेन हृता भार्या बभूवेयमनिन्दिता । मारीचदर्शनं चैव सीतोन्मथनमेव च ॥११॥ कबन्धदर्शनं चैव पम्पाभिगमनं तथा । सुग्रीवेण च ते सख्यं यच्च वाली हतस्त्वया ॥ १२॥ मार्गणं चैव वैदेह्याः कर्म वातात्मजस्य च । विदितायां च वैदेह्यां नलसेतुर्यथा कृतः ॥ १३॥ यथा वा दीपिता लङ्का प्रहृष्टैहरियूथपैः । सपुत्रबान्धवामात्यः सबलः सहवाहनः ॥ १४॥ यथा विनिहतःसङ्ख्ये रावणो देवकण्टकः। समागमश्च त्रिदशैर्यथा दत्तश्च ते वरः। सर्वं ममैतद्विदितं तपसा धर्मवत्सल ॥१५॥ अहमप्यत्र ते
दमि वरं शत्रभृतां वर । अर्घ्यमद्य गृहाणेदमयोध्या श्वो गमिष्यसि ॥ १६ ॥ नियुक्तस्य तैयाचितस्य । अत एव रक्षितुः खरादिवघमुखेन पालयितुः, तव भार्या हृता बभूवेति यत् तच्चेति योजना । हृता इत्मीप्सिता । आशंसायां का। अतो न सीतोन्मथनमित्यनेन पौनरुक्त्यम् । वरः मृत्वानरजीवनादिः॥१०-१५॥ रामानु-पथा च निहतः मङ्खये रावणो देवकण्टकः इत्यतः पाम, समागमश्च त्रिदशेरिति लोको द्रष्टव्यः ॥ १५ ॥ अहमिति । वरं दद्मि ददामि । अत्र आश्रमे अद्य अर्घ्य पूजां गृहाणेति संबन्धः ॥ १६॥ साम्प्रतमिति । मम प्रीतिः, जातेति शेषः ॥ ८॥ ॥ सर्व ते सुखं दुःखं च विदितमित्येतत्प्रकाशयति-यत्त्वयेति । जनस्थानवासिना त्वया यद्विपुलं खरवधादिना
दुःखं प्राप्तं तन्मया विदितम् ॥ १० ॥ मारीचदर्शनं, रावणस्य सीतापहारार्थमिति शेषः । सीतोन्मथनं सीताया राक्षसीभिलायो केशनम् ॥ ११॥ १२॥ चवतात्मजस्य कर्म समुद्रलइनलकादाहनादि ॥ १३ ॥ प्रहष्टहरियूथपेला दीपितेति यत् इन्द्रजिधानन्तरं कृतं तच विदितम् ॥ १५-२०॥
वा॥३६॥
For Private And Personal Use Only