________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
नियतकरणत्रयः ॥१॥ स इत्यादिसायश्लोक एकान्वयः । सुभिक्षानामयम्, भिक्ष्यन्त इति भिक्षाः अन्नानि, भिक्षाणां समृद्धिः सुभिक्षम् । समृद्धावव्ययी। Mभावः । आमयस्याभावोऽनामयम् । प्रसज्यप्रतिषेधेऽपि समासस्येष्टत्वात्साधुः । सुभिक्षं चानामयं चेति विग्रहः । अनामयम् आरोग्यम् । “अनामयं स्यादारोग्यम्" इत्यमरः । युक्तः प्रजापालने समाहितः॥२॥ प्रहष्टवत् प्रहृष्टम् । क्रियाविशेषणम् । स्मितपूर्वम्, सर्वज्ञोऽप्यमानान इस पृच्छतीति
सोऽपृच्छदभिवाद्यैनं भरद्वाजं तपोधनम् । शृणोषि कच्चिद्भगवन् सुभिक्षानामयं पुरे। कच्चिच्च युक्तो भरतो जीव न्त्यपि च मातरः॥२॥ एवमुक्तस्तु रामेण भरद्वाजो महामुनिः । प्रत्युवाच रघुश्रेष्ठं स्मितपूर्व प्रहृष्टवत् ॥३॥ पङ्कदिग्धस्तु भरतो जटिलस्त्वां प्रतीक्षते। पादुके ते पुरस्कृत्य सर्वं च कुशलं गृहे ॥ ४ ॥ त्वां पुराचीरवसनं प्रविशन्तं महावनम् । स्त्रीतृतीयं च्युतं राज्याद्धर्मकामं च केवलम् । पदातिं त्यक्तसर्वस्वं पितुर्वचन
कारिणम् ॥ ५॥ सर्वभोगैः परित्यक्तं स्वर्गच्युतमिवामरम् । दृष्ट्वा तु करुणा पूर्व ममासीत् समितिञ्जय ॥ ६॥ स्मितम् । यद्वा किं भरतः प्रजापालनसन्तुष्टो वर्तत इति प्रश्नसारं मत्वा परतन्त्रे तस्मिन् कथमित्थं संभवतीति स्मितकरणम् ॥३॥ अत एव तदनु रूपमुत्तरयति-पङ्केति । नानाभावात्पदिग्धत्तम् । नानाभावेऽपि नित्यानुष्ठानं दीक्षितपत् गौणसानेन । खानाभावे निमित्तमाह-जटिल इति । जटिलःजटावान् । पिच्छादित्वादिलच । जटिलानां वारुणसानं निषिद्धमिति भावः । “कथं न्वपररात्रेषु सरयूमवगाहते" इत्यायुक्तिस्तु कादाचित्क सानपरत्वेऽप्युपपद्यते । यदा सदा अनास्तृतभूमिशयनादिना वा तादृशत्वम् । एवं व्रतनिष्ठो भरतस्ते पादुके राज्याय पुरस्कृत्य त्वां प्रतीक्षते, त्वदा गमनाकाझ्या वर्तत इत्यर्थः । कच्चिच्च युक्तो भरत इत्यस्योत्तरमुक्त्वा, जीवन्त्यपि च मातर इत्यस्योत्तरमाह-सर्व चेति । तव गृहे यद्यदस्ति तत्सर्वम्, कुशलं क्षेमयुक्तम् । जीवन्त्यपि चेति समुच्चाय्य पृष्टाः सर्वे मातृपरिचारकादयो जीवन्तीत्यर्थः ॥ ४॥ त्वां पुरेत्यादिश्लोकत्रयमेकं वाक्यम् । पुराचीर स इत्यादि । सुभिक्षानामयं मुभिक्षम् अनाना समृद्धिः । समृद्धावव्ययीभावः । सुभिक्ष चानामयं चेति विग्रहः । युक्तः समाहितः । प्रजापालन इत्यर्थः ॥२॥ एवमिति । स्मितपूर्व प्रत्युवाच सर्वज्ञोऽपि भगवान अजानन्निव मां पृच्छतीति स्मितकारणम् । प्रहष्टवत भद्दष्टवान् ॥ ३-७॥
For Private And Personal Use Only