________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
पुरम् पतदित्यन्वयः॥५०॥ एषा सेति । यूपमालिनी इक्ष्वाकुभिस्तीरे यागानन्तरं कीर्त्यर्थं शिलाभिः कृतयूपवतीत्यर्थः ॥ ११॥ एषा सेति । अयोध्यामिति, उद्दिश्यति शेषः । विमानस्याकाशगतत्वेन दूरस्था अपि गङ्गाङ्गिवेरपुरसरय्वयोध्या दृष्टा इति बोध्यम् । भरद्वाजाश्रमे हि तदा
एषा सा दृश्यते सीते सरयू!पमालिनी । नानातरुशताकीर्णा सम्प्रपुष्पितकानना ॥५१॥ एषा सा दृश्यते ऽयोध्या राजधानी पितुर्मम । अयोध्यां कुरु वैदेहि प्रणामं पुनरागता ॥५२॥ ततस्ते वानराः सर्वे राक्षसश्च विभीषणः । उत्पत्योत्पत्य ददृशुस्ता पुरीं शुभदर्शनाम् ॥ ५३ ॥ ततस्तु तां पाण्डुरहर्म्यमालिनी विशाल कक्ष्या गजवाजिसङ्खलाम् । पुरीमयोध्या ददृशुः प्लवङ्गमाः पुरी महेन्द्रस्य यथाऽमरावतीम् ॥ ५४ ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे षड़िशत्युत्तरशततमः सर्गः ॥ १२६ ॥
पूर्णे चतुर्दशे वर्षे पञ्चम्यां लक्ष्मणाग्रजः । भरद्वाजाश्रमं प्राप्य ववन्दे नियतो मुनिम् ॥१॥ स्थितिः ॥५२॥५३॥ सतस्त्विति । पाण्डुरेत्यादिस्वभावोक्तिः॥५४॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नकिरीटाख्याने युद्ध काण्डव्याख्याने पड़िशत्युत्तरशततमः सर्गः ॥ १२६॥ अथ भरद्वाजाश्रमवास:-पूर्ण इति । पूर्णे, चैत्रशुद्धपञ्चम्यामयोध्यातो निर्गमनम् । तदारभ्या चतुर्दशवर्षे पूर्णे सति पञ्चम्यां चैत्रशुद्धपञ्चम्याम । तथा हि-चैत्रशुद्धपञ्चम्यां निर्गमः । तद्राव्यां तमसातीरे निवासः। षष्ठयां शृङ्गिबेरपुरे । सप्तम्यां वन स्पतिमूले । अष्टम्यां भरद्वाजाश्रमे । नवम्यां यमुनातीरे । दशम्यां रामश्चित्रकूटं गमिष्यतीति गुहचारमुखेन विदितवृत्तान्तस्य सुमन्त्रस्य सायाह्ने अयोध्या अनसूया ॥ ४५-५१ ॥ एषेति । प्रणामम, अयोध्या प्रतीति शेषः ॥ ५२-५४॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्या युद्धकाण्ड व्याख्यायां पद्विशत्युत्तरशततमः सर्गः ॥ १२६ ॥ " पूर्ण चतुर्दशे वर्षे पञ्चम्या लक्ष्मणाप्रजः । भरद्वाजाश्रम प्राप्य" इत्यनेनेदं प्रतिपाद्यते-फाल्गुनपूर्णिमाया। सुवेलारोहणम । अत्र प्रमाणम् " ततोऽस्तमगमत्सूर्यम्सन्ध्यया प्रतिरञ्जितः। पूर्णचन्द्रप्रदीपा च क्षपा समभिवर्तन" इति वचनम् । ततोऽपरेयुः कृष्णपक्षप्रथमायो ) युद्धस्य प्रारम्भः, तम्यामेव रात्री नागपाशबन्धमोक्षो । द्वितीयायां धूम्राक्षवधः। तृतीयायो वजदंष्ट्रस्य वधः। चतुथ्यौ मकराक्षस्थ वधः। वस्तुतस्तु दशम्यामेव
२१८
For Private And Personal Use Only