________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
स्थिता ॥ १४॥ क्रमेणारोक्ष्यतीत्याशय मन्मथो विलम्ब न सहत इत्याह-सुलोहितेति । सुप्रतिष्ठितो समतलौ । दृष्ट्वा, स्थितस्येति शेषः। शरीरजः कामः ॥ १५॥ सोऽपि निगृह्यतामित्याशङ्कयाइ-हुतेत्यादि । अर्धमेकं वाक्यम् । आर्चिश्शब्दस्य इकारान्तत्वमार्षम् । सौरीमिव प्रभामित्यस्य । दृष्ट्वेत्यादिशेषपूरणेन सम्बन्धः ॥१६॥ उन्नसमिति । उन्नसम् उन्नतनासिकम् । "उपसर्गाच" इति नसादेशः । अवशः विवशः । तदधीनः कथं निगृह्णीया सुलोहिततलौ श्लक्ष्णौ चरणौ सुप्रतिष्ठितौ । दृष्ट्वा ताम्रनखौ तस्या दीप्यते मे शरीरजः॥१५॥ हुतामेरर्चिसङ्काशामेनां सौरीमिव प्रभाम्॥१६॥[दृष्ट्वा सीतां विशालाक्षी कामस्य वशमेयिवान् । उन्नसं वदन वल्गु विपुलं चारुलोचनम् । पश्यस्तदा वशस्तस्याः कामस्य वशमेयिवान् ॥ १७॥ क्रोधहर्षसमानेन दुर्वर्णकरणेन च । शोकसन्तापनित्येन कामेन कलुषीकृतः ॥१८॥ सा तु संवत्सरं कालं मामयाचत भामिनी। प्रतीक्षमाणा भर्तारं राममायतलोचना
॥ १९ ॥तन्मया चारुनेत्रायाः प्रतिज्ञातं वचः शुभम् । श्रान्तोऽहं सततं कामाद्यातो हय इवाध्वनि ॥२०॥ मिति भावः । वल्गु सुन्दरम् ॥ १७॥ कामवश्यत्वमेव विवृणोति-क्रोघेति । क्रोधहर्षयोः समानेन क्रोधे हर्षे चैकरूपेण । दुर्वर्णकरणेन वैवर्ण्यकारिणा। शोकसन्तापनित्येन शोके मनोव्यथायां सन्तापे शरीरपीडायां च नित्येन अनपायेन कामेन । कलुषीकृतः व्याकुलचित्तोऽस्मि ॥१८॥ यद्येवं सा प्रसह्यापि शय्यामारोप्यताम्, तत्राह-सा विति । संवत्सरं कालं संवत्सररूपं कालम् । संवत्सराभ्यन्तरे रामो यदि नागतः तदा तथा करिष्यामीत्यया। चतेत्यर्थः । इदं चारोप्योक्तम् । वस्तुतो रावणेनैव तथा प्रतिज्ञानादिति भावः ॥ १९॥ चारुनेत्राया इति प्रतिश्रवणहेतुः । नयनसौन्दर्यपारवश्येन. सशी। माया प्रतिक्षणमपूर्वषदाश्चर्यावहवस्तुविशेषः ॥ १४ ॥ चरणो दृष्ट्वा, स्थितस्येति शेषः ॥ १५॥ हुताग्नेरित्यर्द्धमेकं वाक्यम् । अवापि दृष्देत्यषज्यते ॥ उन्नसमिति । तस्या बदनं पश्यन् अवशः विवशस्सन् कामस्य वशमेयिवानिति सम्बन्धः ॥ १७ ॥ क्रोधहर्षसमानेन क्रोधहर्षयोस्समानेन क्रोधहर्षावस्थयोर्वाधा।
कत्वेनेकरूपेण । दुर्वर्णकरणेन वैवर्ण्यकारिणा। शोकसन्तापनित्येन शोकसन्तापावस्थयोधिकत्वेन नियतेन, अनेनाक्षवधादिजनितदु:खित्वाद्यवस्थास्वपि कामस्य पवाधकत्वमुक्तं भवति ॥ १८॥ तह्यादित आरभ्य प्रतिकूलया सीतया कि प्रयोजनम् ! सा त्यज्यतामित्याशङ्कच "सा मे न शय्यामारोदुमिच्छत्यलसगामिनी
इत्यवशादागतसत्यवचनसूचितं तदनुरागाभावं सङ्गोप्य स्वकृतस्यावधेस्तत्प्रार्थनापूर्वकत्वमारोप्याह-सा त्वित्यादिना । कालमवधित्वेनायाचत 'इयं च दण्ड कारण्यात ' इत्यारभ्य-श्रान्तोऽहं सततं कामात्' इत्यन्तस्य अन्धसन्दर्भस्थ वास्तवार्थस्तु-पूजार्थमानीतो त्रैलोक्यमोहिनी ममेष्टदेवता सीता स्थण्डिलशायिनी दुःखाकान्ता दृष्टा अहमतिदुःखमनुभवामीत्याशयेनाह-सा मे नेति । मे शव्या मदर्पिता शय्यामित्यर्थः । एतादृशविशेषणविशिष्टा सीता दुःखाहीं न भवतीति
११
For Private And Personal Use Only