________________
Shri Mahavir Jain Aradhana Kendra
वा.रा.भू. ॥ ३२ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तौ च । हिताहिते हितम् उत्तरकालफलवत् अहितं तदितरत् ते च । वेदितुमर्हथ । प्रियाप्रियादिफलस्वरूपनिर्धारणाय धर्मादिसन्देहं निराकर्तुं समर्था । इत्यर्थः ॥ ७ ॥ कथममि इत्यपेक्षायां तत्कायमुखेन दर्शयति-सर्वेति । स्पष्टम् ॥ ८ ॥ इदानीमपि तथैवास्त्वित्याह-स सोमेति । ग्रहाः सोमभिन्नाः सूर्यादयः । मरुद्भिः सोमादिभिन्नैर्देवैः ॥ ९ ॥ पूर्वोक्तस्यैवार्थस्य पुनरपि वक्ष्यमाणत्वात्तत्र पुनः कथने हेतुं दर्शयति-अहमिति । तुरवधारणे । सर्वान् सर्वकृत्यानि युष्माभिः समारब्धानि सर्वदा । मन्त्रकर्मनियुकानि न जातु विफलानि मे ॥ ८ ॥ स सोमग्रहनक्षत्रै मरुद्भिरिव वासवः । भवद्भिरहमत्यर्थं वृतः श्रियमवाप्नुयाम् ॥ ९ ॥ अहं तु खलु सर्वान् वः समर्थयितुमुद्यतः । कुम्भकर्णस्य तु स्वप्रान्नेममर्थमचोदयम् ॥ १० ॥ अयं हि सुप्तः षण्मासान् कुम्भकर्णो महाबलः । सर्वशस्त्रभृतां मुख्यः स इदानीं समुत्थितः ॥ ११ ॥ इयं च दण्डकारण्याद्रामस्य महिषी प्रिया । रक्षोभिश्चरिताद्देशादानीता जनकात्मजा ॥ १२ ॥ सा मे न शय्यामारोढुमिच्छत्यलसगामिनी । त्रिषु लोकेषु चान्या मे न सीतासदृशी मता ॥ १३ ॥ तनुमध्या पृथुश्रोणी शारदेन्दुनिभानना। हेमविम्बनिभा सौम्या मायेव मयनिर्मिता ॥ १४ ॥
वः समर्थयितुं ज्ञापयितुम् उद्यत एव पूर्वमेवोद्यतः । किंतु कुम्भकर्णस्य स्वनाद्धेतोः इममर्थं नाचोदयं तस्य नावेदयम् । अतः कथ्यत इत्यर्थः ॥ १० ॥ कुम्भकर्णस्य स्वप्रादित्युक्तमेव स्पष्टयति-अयमिति । पण्मासानित्यत्यन्तसंयोगे द्वितीया । इदानीं समुत्थितः। अतः पूर्वं नावेदयमित्यर्थः ॥ ११ ॥ उत्तरत्र सीताप्रत्यर्पणं विना रामजयो विचार्यतामिति वक्तुकामस्तस्या दुस्त्यजत्वं दर्शयितुं तामेव स्तौति- इयमित्यादिना । रक्षोभिश्वरिताद्देशात् जन स्थानादित्यर्थः । सा मयाऽऽनीतेत्युक्तिरजानन्तं कुम्भकर्ण प्रति ॥ १२ ॥ अलसगामिनी मन्दगामिनी । त्यज तामनिच्छन्तीम्, प्रतिगृहाणेतरामित्यत्राह - त्रिष्विति ॥ १३ ॥ असदृशत्वमुपपादयति - तनुमध्येत्यादिना | हेमबिम्बनिभा स्वर्णप्रतिमातुल्या । सौम्या रम्या । मायेव प्रतिक्षणमपूर्ववदाश्वर्यावहवस्तुवत् प्रियसाधने सुखे सुखकरोपाये दुःखे दुःखकरोपाये ! लाभः इष्टप्राप्तिः, अलाभः तदभावः तस्मिन् । हिताहिते इति पाठः ॥ ७-९ ॥ पूर्वेद्युः कथितोऽर्थः इदानीं किमर्थं कथ्यत इत्याशङ्कच पुनः कथने हेतुमाह-अहं त्विति । तुः अवधारणे । अहं सर्वान् वः समर्थयितुं ज्ञापयितुम् उद्यत एव निवेदितवानित्यर्थः । किन्तु | स्वमाद्धेतोरिममर्थ कुम्भकर्णस्य नावेदयम् । अतः कथ्यत इत्यर्थः । अवोधयमिति पाठेऽप्ययमेवार्थः ॥ १० ॥ षण्मासान् षट्सु मासेषु । अत्यन्तसंयोगे द्वितीया ॥ ११-१३ ॥ सीताप्रत्यर्पणं विना राघवजयोपायो विचार्यतामिति वक्तुकामस्तस्या दुस्त्यजत्वं दर्शयितुं स्तौति-तनुमध्येत्यादि । हेमबिम्बनिभा सुवर्णप्रतिमा |
For Private And Personal Use Only
टी. यु.का.
स० [१२]
॥ ३२ ॥