________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
S
अथ सर्वमेलनानन्तरं नगररक्षाविधानपूर्वकं स्वाभिमतानुसारेण रावणो मन्त्रमर्थयते-स तामित्यादि । समिती युद्धे जयतीति समिर्तिजयः । “संज्ञायां भृतृवृजि-" इत्यादिना खचि मुमागमः। तां पूर्वोक्ताम् । सेनेति । कृतविद्याः अभ्यस्तधनुर्तियाः। चतुर्विधाः रथिकहस्तिपसादिपदातिरूपेण चतु विधाः । अधिकरक्षायां पूर्वापेक्षया सावधानरक्षायाम् । यथा स्युः यथा जागरूकाः स्युः। तथा व्यादेष्टुमर्हसि । अत्र इतिकरणं बोध्यम् ॥१॥२॥
स तां परिषदं कृत्स्ना समीक्ष्य समिर्तिजयः । प्रचोदयामास तदा प्रहस्तं वाहिनीपतिम् ॥ १॥ सेनापते यथा ते स्युः कृतविद्याश्चतुर्विधाः । योधानधिकरक्षायां तथा व्यादेष्टुमर्हसि ॥२॥स प्रहस्तः प्रणीतात्मा चिकीर्षन् राजशासनम् । विनिक्षिपद्धलं सर्व बहिरन्तश्च मन्दिरे ॥३॥ ततो विनिक्षिप्य बलं पृथङ्गगरगुप्तये। प्रहस्तःप्रमुखे राज्ञो निषसाद जगाद च ॥४॥ निहितं बहिरन्तश्च बलं बलवतस्तव । कुरुष्वाविमनाःक्षिप्रं यदभिप्रेतमस्तु ते ॥५॥प्रहस्तस्य वचः श्रुत्वा राजा राज्यहिते रतः। सुखेप्सुः सुहृदां मध्ये व्याजहार स रावणः ॥६॥ प्रिया प्रिये सुखं दुःखं लाभालाभौ हिताहिते। धर्मकामार्थकृच्छ्रेषु यूयमर्हथ वेदितुम् ॥७॥ स इति । सः सर्वेषु विद्यमानेष्वपि रावणवित्रम्भपात्रभूतः । प्रणीतात्मा निश्चितबुद्धिः। मन्दिरे रावणगृहे । विनिक्षिपत् विन्यक्षिपत् व्यधात् ॥३॥ प्रमुखे अग्रे॥४॥अविमनाः स्वस्थहृदयः यदभिप्रेतं तत्कुरुष्व । तत् अभीष्टम् ते अस्तु सिद्ध्यतु ॥५॥ सुखेप्मुः कामपुरुषार्थेज्छुः, न विजयेच्छुः |
६॥ मन्त्रणीयं वक्तुमनास्तेषामाभिमुख्य संपादयितुं प्रथमं तान् प्रशंसति-प्रियाप्रिये इति । धर्मकामार्थकृच्छ्रेषु धर्मकामार्थसारेषु विषये। धर्मादि विदानी कोवा सेव्य इति सन्देहे तदनुष्ठानफलभूते प्रियाप्रिये सुखदुःखसाधने वस्तुनी । सुखं दुःखम्, लाभालाभो लाभ इष्टप्राप्तिः अलाभः तन्नाशः ॥१॥सेनापत इति । ये कृतविद्याः अभ्यस्तसर्वविद्याः । चतुर्विधाः रथिकहस्तिपसादिपदातिरूपेण चतुर्विधा योधाः, सन्तीति शेषः । अधिकरक्षायां यथा स्युः यथा जागरूकाः स्युः तान तथा व्यादेए ईसीत्यर्थः । योधानगररक्षायामिति च पाठः ॥२॥ प्रणीतात्मा विनीतात्मा प्रहस्तः राजशासनं चिकीर्षन सर्ववलं मन्दिरे बहिरन्तश्च विनिक्षिप्य ततो नगरगुप्तये बलं पृथक् विनिक्षिप्य, आगत इति शेषः । प्रहस्तो राज्ञः प्रमुख निषसाद अभिप्रेतं कुरुष्वति जगाद चेति योजना ॥ ३-६ ॥ प्रियाप्रिये इति । धर्मकामार्थकृच्छ्रेषु धर्मकामार्थसङ्कटेषु विषये। धर्मादिष्विदानी को वा सेव्य इति सन्देहे तत्तदनुकूलभूते प्रियाप्रिये प्रिया
For Private And Personal Use Only