________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
वा.रा.भू.
३१॥
मात्याः। “अव्ययात्त्यप्"। आप्ता इत्यर्थः । बुद्धिदर्शनाः बुद्धिचक्षुषः ॥२६॥ शूरा इत्युतरशेषः । अन्यथा किपापदपौनरुक्त्यम् । सभाया टी.यु.क मिति । सुखाय क्षेमाय । क्षेमं विचारयितुम् । “कियार्थोपपदस्य-" इत्यादिना चतुर्थी ॥२७॥ तत इति । युग्या अश्वाः। युगं वहन्तीति
स०११ "तहति रथयुगप्रासङ्गम्" इति यत् ॥ २८॥ स इति । नाम शशंस । अभिवादनमकरोदित्यर्थः। शुकः प्रहस्तश्चेति । ववन्दाते इत्यर्थः ॥२९॥ समेयुस्तत्र शतशः शराश्च बहवस्तदा । सभायां हेमवर्णायां सर्वार्थस्य सुखाय वै। रम्यायां राक्षसेन्द्रस्य समेयुस्तत्र सङ्घशः। [राक्षसा राक्षसश्रेष्ठं परिवार्योपतस्थिरे] ॥ २७॥ ततो महात्मा विपुलं सुयुग्यं वरं रथं हेमविचित्रिताङ्गम् । शुभं समास्थाय ययौ यशस्वी विभीषणः संप्सदमग्रजस्य ॥ २८ ॥ स पूर्वजायावरजः शशंस नामाथ पश्चाच्चरणी ववन्दे । शुकः प्रहस्तश्च तथैव तेभ्यो ददौ यथाई पृथगासनानि ॥ २९ ॥ सुवर्ण नानामणिभूषणानां सुवाससा संसदि राक्षसानाम् । तेषां पराागरुचन्दनानां सजश्च गन्धाश्च ववुः समन्तात् ॥३०॥ न चुक्रुशु नृतमाह कश्चित् सभासदो नैव जजल्पुरुचैः । संसिद्धार्थाः सर्व एवोग्रवीर्या भर्तुः सर्वे ददृशु श्चाननं ते ॥ ३१॥ सरावणः शस्त्रभृतां मनस्विनां महाबलाना समिती मनस्वी । तस्यां सभायां प्रभया चकाशे
मध्ये वसूनामिव वजहस्तः ॥ ३२ ॥ इत्याचे श्रीरामायणे वाल्मीकीये श्रीमयुद्धकाण्डे एकादशः सर्गः ॥११॥ सजश्च गन्धाःसां गन्धाः ॥ ३०॥ न चुकुशुःन घोषं चक्रुः । न जजल्पुः न क्रमोक्तीश्चक्नुः । सभासदः सभागताः । संसिद्धेत्यर्धे वृत्तभेदश्चिन्त्यः M॥३१॥ समिती सङ्के। “सड़े सभायां समितिः" इत्यमरः । सभायाम् आस्थानमण्डपे ॥३२॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे। रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने एकादशः सर्गः ॥११॥ निर्णयेष्वधिमन्त्रिणः अमात्याश्च उपमन्त्रिणः । बुद्धिदर्शनाः बुद्धिः दर्शनं चक्षुर्येषां ने तथा । यद्वा अमात्याः कर्मणि सहायाः, मन्त्रिणो बुद्धिसहायाः समेयु रित्यन्वयः . शूराश्चेन्पुत्तरशेषः । सुखाय क्षेमाय क्षेमं विचारयितुम् ।। २६-३० ॥ सं.तेद्धार्थी पूर्णचनारथाः ॥ ३१ ॥१२॥ इति श्रीमहेश्वरतीयविरचिताया श्रीरामायणतत्वदीपिकाख्या युद्धकाण्डव्याख्यायाम् एकादशः सर्गः ॥ ११ ॥
॥३१॥
For Private And Personal Use Only