________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
राक्षसा इत्यादिसायश्लोकः। विहरमाणानीति शेषः। विहारो विहारस्थलम् । विहारादिषु आस्थाय विहरमाणानि रक्षांसि। अभीतवत् अभीताः।चोदयन्तः
चोदनार्थ लङ्कायामनुगेहं परिचक्रमुरित्यन्वयः ॥२०॥ ते स्थान् रुचिरानेके हप्तानेके पृथग्घयान् । नागानन्येऽधिरुरुहुर्जग्मुश्के पदातयः॥ इति पाठः V॥२१॥ रामानु० -त इति । स्थान्तचराः स्थमध्यस्थिताः । जम्मुरित्यर्थः । हयानित्यत्राप्यधिरुरुहुरिति संबध्यते । जग्मुरेके पदातयः केचित्पदातयः सन्तो जग्मुरिति सम्बन्धः ॥ २१॥
राक्षसास्तद्वचः श्रुत्वा लङ्कायां परिचक्रमुः। अनुगेहमवस्थाय विहारशयनेषु च । उद्यानेषु च रक्षांसि चोदयन्तो ह्यभीतवत् ॥२०॥ ते स्थान रुचिरानेके दृप्तानेके पृथग्घयान् । नागानन्येऽधिरुरुहुर्जग्मुश्चैके पदातयः ॥२१॥ सा पुरी परमाकीर्णा रथकुञ्जरवाजिभिः । सम्पतद्भिर्विरुरुचे गरुत्मद्भिरिवाम्बरम् ॥ २२ ॥ ते वाहनान्यवस्थाप्य यानानि विविधानि च । सभा पद्भिः प्रविविशुः सिंहा गिरिगुहामिव ॥ २३ ॥ राज्ञः पादौ गृहीत्वा तु राज्ञा ते प्रतिपूजिताः । पीठेष्वन्ये बृसीध्वन्ये भूमौ केचिदुपाविशन् ॥ २४ ॥ ते समेत्य सभायां वै राक्षसा राज शासनात् । यथार्हमुपतस्थुस्ते रावणं राक्षसाधिपम् ॥ २५ ॥ मन्त्रिणश्च यथा मुख्या निश्चयार्थेषु पण्डिताः ।
अमात्याश्च गुणोपेताः सर्वज्ञा बुद्धिदर्शनाः॥२६॥ गरुत्मद्भिः पक्षिभिः ॥२२॥ वाहनानि शिबिकादीनि । यानानि अश्वादीनि । अवस्थाप्य बहिनिक्षिप्य ॥२३॥ अन्ये पुरोहितादयः । पीठेषु सुवर्णादि कृतासनेषु । अन्ये श्रोत्रियाः। वृसीषु दर्भमयासनेषु । केचित्पुत्रादयः । भूमौ सामान्यास्तरणमात्रयुक्तायां भूमौ ॥२४॥ त इति । क्रियाभेदात्तच्छन्द द्वयम् । उपतस्थुः समीपे तस्थुः । यथाई यथाक्रमम् ॥ २५॥ मन्त्रिणश्चेत्यादिसपादश्लोकः । यथा यथाक्रमम् । यथामुख्या इत्येकं पदं वा। मुख्या। ननतिक्रम्य स्थिताः । अनव्ययत्वमार्षम् । निश्चयार्थेषु अर्थनिश्चयेषु । अमात्याः कर्मणि सहायाः। मन्त्रिणः बुद्धिसहायाः। यद्वा अमा सह तिष्ठन्तीत्य प्राप्तं महत्कृत्यमस्ति अतो राक्षसान समानयतेति दूनानीश्वरवच्छशासेति योजना । अनेन ससैन्यस्प सुग्रीवस्य रामलक्ष्मणयोश्च समुद्रतीरागमनं चारमुखेन ज्ञातवानित्यवगम्यते ॥ १८॥ १९ ॥ राक्षसा इत्यादिसार्धः। अवस्थाय, विहरमाणानीति शेषः । विहारशयनेषु उद्यानेषु च विहरमाणानि रक्षांसि अभातवत चोदयन्तः अभीता आह्वयन्तो लङ्कायामनुगेई परिचक्रमुरित्यन्वयः ॥ २०-२५ ॥ मन्त्रिण इत्यादि सपादलोकमेकं वाक्यम् । यथा यथावत् । निश्चयार्थेषु अर्थ
For Private And Personal Use Only