________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
वा.रा.भ.
॥३०॥
रूपव्यजने । सव्यदक्षिणे सव्यदक्षिणयोः। “सर्वो इन्द्रो विभाषयैकवद्भवति" इत्येकवद्भावः ॥ १२॥ त इति । स्पष्टम् ॥ १३॥ सुविहितां सुष्ठ टी.यु.का. निर्मिताम् ॥ १४ ॥ सुवर्णेत्यादिश्लोकद्वयमेकान्वयम् । विशुद्धस्फटिकान्तरां निर्मलस्फटिकनिर्मितमध्यप्रदेशाम् । रुक्मपट्टोत्तरच्छदां कनकमयपट्टा वस्त्रास्तरणाम् ॥ १५ ॥ १६ ॥ वैडूर्यमयं वैडूर्यप्रचुरम् । प्रियकाजिनसंवृतं प्रियकमृगस्याजिनेन संवृतम् । “ प्रियको लोमभियुक्तो मृदूच्च
ते कृताञ्जलयः सर्वे रथस्थं पृथिवीस्थिताः। राक्षसा राक्षसश्रेष्ठं शिरोभिस्तं ववन्दिरे ॥ १३ ॥राक्षसैः स्तूयमानः । सन् जयाशीमिररिन्दमः। आससाद महातेजाः सभा सुविहितां शुभाम् ॥ १४ ॥ सुवर्णरजतस्थूणां विशुद्ध
स्फटिकान्तराम् । विराजमानो वपुषा रुक्मपट्टोत्तरच्छदाम् ॥ १५॥ तां पिशाचशतैः षडभिरभिगुप्तां सदा शुभाम् । प्रविवेश महातेजाः सुकृता विश्वकर्मणा ॥ १६ ॥ तस्यां तु वैडूर्यमयं प्रियकाजिनसंवृतम् । महत् सोपाश्रयं भेजे रावणः परमासनम् ॥ १७॥ ततः शशासेश्वरवद् दूतान् लघुपराकमान । समानयत मे क्षिप्रमिहैतान
राक्षसानिति ॥ १८॥ कृत्यमस्ति महज्जातं समर्थ्यमिह नो महत् ॥ १९॥ मसृणैनैः” इति वैजयन्ती। सोपाश्रयं सावष्टम्भम्, सोपधानामिति यावत् ॥ १७॥ ईश्वरवत राजाईम् । इह सभायाम् एतान् एतन्नगरस्थान् । इति शशासेत्यन्वयः। तमेव प्रकारमाह-कृत्यमित्यर्थेन । महद्यथा तथा समर्थ्य यत्नेन निर्वाह्यं जातं प्राप्तं महत्कृत्यमस्तीति शशास । महद्भयो रामा दिभ्यो, जातमिति वा । महदित्यनेन तदानी चारमुखेन रामादेः समुद्रतीरगमनं रावणो ज्ञातवानिति गम्यते ॥ १८॥ १९ ॥ रामानु-तत इति । ईश्वरवत् । ईशानवत् । कृत्यमिति । एको महच्छब्दः क्रियाविशेषणम् । इह महज्जातं कृत्पमस्ति तत् महद्भूरि यथा तथा समर्थं समर्थनीयम् । कर्मणि घश् । समर्थ्यमिह नो भवेदिति वा पाठः ।। पूर्वश्लोकान्तस्थमितिकरणमत्र द्रष्टव्यम् । इति शशासेति संवन्धः । अनेन सैन्यस्य रामलक्ष्मणयोश्च समुद्रतीरगमनं चारमुरवेन ज्ञातवानित्यवगम्यते ॥ १८॥ १९॥ सिव्यदक्षिणपार्श्वयोरित्यर्थः ॥ ११-१३ ।। राक्षसरित्यादि श्लोकद्वयमेकं वाक्यम् । विरनिता, विश्वकर्मणेति शेषः । विशुद्धस्फटिकान्तरां शुद्धस्फटिकनिबद्धमध्य प्रदेशाम् । रुक्मपट्टोत्तरच्छदा रुक्मप्रचुरपट्टवस्त्रोत्तरच्छदाम् ॥ १४-१६॥ प्रियकाजिनसंवृतम् प्रियको मृगविशेषः तस्याजिनेन संवृतं सोपाअयं सावष्टम्भमा सोपधानमिति यावत् ॥ १७ ॥ ततः शशासेत्यादिसार्धश्लोकमेकं वाक्यम् । एको महच्छन्द क्रियाविशेषणम् । महद्यथा तथा समय शक्तेन निर्वाह्यं जातं
For Private And Personal Use Only