________________
Shri Mahavir Jain Aradhana Kendra
वा.रा.भू. ॥३५३॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
राम ! भरतं प्राप्नुहीति भावः ॥ २१-२४ ॥ कैकेय्या भरतस्य च कैकेय्यां भरते चेत्यर्थः । संबन्धसामान्ये षष्ठी । यस्मादुक्ता तस्मात् प्रसादं कुर्विति | संबन्धः ॥ २५ ॥ स शाप इत्यर्धमेकं वाक्यम् । शापः संबन्धविच्छेदरूपः ॥ २६ ॥ २७ ॥ सीतया सह रामं शुश्रूषतेत्यन्वयः ॥ २८ ॥ स्वर्गे सुखम् । कृतं कर्म यशः श्लाघ्यं प्राप्तं ते शत्रुसूदन । भ्रातृभिः सह राज्यस्थो दीर्घमायुरवाप्नुहि । इति ब्रुवाणं राजानं रामः प्राञ्जलिरब्रवीत् ॥ २४ ॥ कुरु प्रसादं धर्मज्ञ कैकेय्या भरतस्य च । सपुत्रां त्वां त्यजामीति यदुक्ता कैकयी त्वया ॥ २५ ॥ स शापः केकयीं घोरः सपुत्रां न स्पृशेत् प्रभो ॥ २६ ॥ स तथेति महाराजो राममुक्त्वा कृताञ्जलिम् । लक्ष्मणं च परिष्वज्य पुनर्वाक्यमुवाच ह ॥ २७॥ रामं शुश्रूषता भक्त्या वैदेह्या सह सीतया । कृता मम महाप्रीतिः प्राप्तं धर्मफलं च ते ॥ २८ ॥ धर्म प्राप्स्यसि धर्मज्ञ यशश्च विपुलं भुवि । रामे प्रसन्ने स्वर्ग च महिमानं तथैव च ॥ २९ ॥ रामं शुश्रूष भद्रं ते सुमित्रानन्दवर्धन । रामः सर्वस्य लोकस्य शुभेष्वभिरतः सदा ॥ ३० ॥ एते सेन्द्रात्रयो लोकाः सिद्धाश्च परमर्षयः । अभिगम्य महात्मानमर्चन्ति पुरुषोत्तमम् ॥३१॥ एतत्तदुक्तमव्यक्तमक्षरं ब्रह्म निर्मितम् । देवानां हृदयं सौम्य गुह्यं रामः परन्तपः ॥ ३२ ॥ अवाप्तं धर्मचरणं यशश्च विपुलं त्वया । रामं शुश्रूषता भक्त्या वैदेह्या सह सीतया ॥ ३३ ॥
लक्ष्मणस्यापि विष्ण्ववतारत्वं न जानाति दशरथः । महिमानं महत्त्वम् ॥ २९ ॥ ३० ॥ रामस्य सर्वोत्तमत्वं शिष्टाचारेण दर्शयति--एत इति । अर्च उन्तीति णिजभाव आर्षः । एत इति हस्तनिर्देशेन रुद्रोऽप्यन्तर्गतः ॥ ३१ ॥ देवानां हृदयं सर्वदेवान्तर्यामी । वेदानामिति पाठे - वेदतात्पर्यभूतम् उभयथा |ऽप्यग्नीन्द्रादिरूपेण सर्वकर्मसमाराध्यमित्यर्थः । गुह्यं साक्षादुपनिषद्वेद्यम् । अव्यक्तं भक्तिशून्यैर्दुर्ज्ञेयम् । अक्षरं पङ्गावविकाररहितम् । तदेतत् ब्रह्म रामः स इति । शापः सन्ततिच्छेदरूपः ॥ २६-३१ ॥ एतदिति । ब्रह्मनिर्मितं वेदप्रतिपादितम् । वेदानां हृदयं वेदतात्पर्यविषयभूतम् । गुह्यं रहस्यम् उक्तं ब्रह्मादिभि स०-रामे प्रसत्रे " किमन्यं भगवति प्रसन्ने श्रीनिकेतने " इत्यादेः ॥ २९ ॥
For Private And Personal Use Only
टी.यु.की. सं० १२२
॥ ३५३॥