________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
सुरर्षिभिः संमानः देवर्षिभिः संमानोऽपि ।। १३॥ ११॥ हृदये स्थितानि न विस्मरामीत्यर्थः । तेन दुःखितोऽभूवमिति सूचितम् ॥ १५ ॥ सलक्ष्मण. मित्यनेन द्वितीयपरिष्वङ्गे लक्ष्मणोऽपि विषयीकृत इत्युच्यते ॥ १६ ॥ तारितोऽहं विति। कहोलो नाम ऋषिरष्टावक्रेण तारित इतीयं कथा भारतोक्ता ॥ १७॥ रावणस्य वधार्थे सुरेश्वरैरिदमभिषेकविनादिकं कर्म यथा विहितं तथा इदानीमेव जानामि । पुरुषोत्तमत्यनेन भवान् विष्णुरेख रावणवधाथै छ।
कैकेय्या यानि चोक्तानि वाक्यानि वदतां वर । तव प्रवाजनार्थानि स्थितानि हृदये मम ॥१५॥ त्वां तु दृष्ट्वा कुश लिनं परिष्वज्य सलक्ष्मणम् । अद्य दुःखादिमुक्तोऽस्मि नीहारादिव भास्करः॥१६॥ तारितोऽहं त्वया पुत्र सुपुत्रेण महात्मना । अष्टावक्रेण धर्मात्मा तारितो ब्राह्मणो यथा ॥१७॥ इदानीं तुविजानामि यथा सौम्य सुरेश्वरैः। वधार्थ रावणस्येदं विहितं पुरुषोत्तम ॥ १८॥ सिद्धार्था खलु कौसल्या या त्वां राम गृहं गतम् । वनानिवृत्तं संहृष्टा द्रक्ष्यत्यरिनिषूदन ॥ १९॥ सिद्धार्थाः खलु ते राम नरा ये त्वां पुरीं गतम् । जलार्द्रमभिषिक्तं च द्रक्ष्यन्ति वसुधा धिपम् ॥२०॥ अनुरक्तेन बलिना शुचिना धर्मचारिणा । इच्छामि त्वामहं द्रष्टुं भरतेन समागतम् ॥ २१ ॥ चतुर्दश समाः सौम्य वने निर्यापितास्त्वया । वसता सीतया साध लक्ष्मणेन च धीमता ॥२२॥ निवृत्तवनवासोऽसि
प्रतिज्ञा सफला कृता । रावणं चरणे हत्वा देवास्ते परितोषिताः ॥ २३ ॥ मनुष्यत्वं गत इत्युच्यते ॥ १८॥ सिद्धार्था कृतार्था । मम स्वर्गसुखादपि तस्याः सुखमधिकमिति भावः ॥ १९॥२०॥ अनुरक्तेनेति । अवश्य तारितोऽहमिति । कहोलो नाम ऋषिः अष्टावक्रेण तारिन इति या भारतकथा प्रसिद्धा सावानुसन्धेया ॥१७॥ रावणस्य वधार्थ सुरेश्वरैरिदमभिषेकरूपं कर्माण विहितमिति इदानीं विजानामीति सम्बन्धः ॥ १८-२२ ॥ निवृत्तेति । ते त्वया ॥२३-२५ ॥
स-अष्टावक्रेण तन्नामकपुत्रेण । जनकसमायां स्वपितृपराजयकारण बन्दिनं जित्वा कहोलो ब्राह्मणः तन्नामकोऽष्टावक्रपिता पथा तारितस्तथा । तदुक्तं मारते वनपर्वणि-"कहोल उवाच । इत्यर्य मिच्छन्ति सुताश्चना जनक कर्मणा । यदहं नाऽशकं कर्तुं तत् पुत्रः कृतवान्मम ॥ " इति ॥ १७ ॥
For Private And Personal Use Only