________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
॥३५२॥
यशस्विनीमिति कैकेयीविशेषणम् । तन्मूलत्वाद्रावणवधस्य तस्या यशस्वित्वम् । लक्ष्मणमातरमित्यनेन सा लक्ष्मणस्नेहाद्विशेषतो वन्येत्युक्तम् । अयोटो ..को. ध्यायां सुदृजनं नन्दयित्वेत्यन्वयः। वंशं पुत्रपौत्रादिपरम्पराम् । इक्ष्वाकूणां कुले इक्ष्वाकुकुलनिमित्तम्, स्थापयित्वा । प्राप्य चानुत्तमं यश इति तुरग
शपुस १२२ मेघफलोक्तिः। आश्वास्येत्यादिना “दशवर्षसहस्राणि दशवर्षशतानि च । वत्स्यामि मानुषे लोके” इत्यवतारात्पूर्व तत्कृतां प्रतिज्ञामनुसृत्य रुदेणोक्तम्
एष राजा विमानस्थः पिता दशरथस्तव । काकुत्स्थ मानुषे लोके गुरुस्तव महायशाः ॥७ ॥ इन्द्र लोकं गतः श्रीमांस्त्वया पुत्रेण तारितः । लक्ष्मणेन सह भ्रात्रा त्वमेनमभिवादय ॥ ८ ॥ महादेववचः श्रुत्वा काकुत्स्थः सहलक्ष्मणः । विमानशिखरस्थस्य प्रणाममकरोत् पितुः ॥९॥ दीप्यमानं स्वया लम्या विरजोम्बर धारिणम् । लक्ष्मणेन सह भ्रात्रा ददर्श पितरं विभुः॥०॥ हर्षेण महताऽऽविष्टो विमानस्थो महीपतिः। प्राणैः प्रिय तरं दृष्ट्वा पुत्रं दशरथस्तदा ॥ ११ ॥ आरोप्यावं महाबाहुर्वरासनगतः प्रभुः । बाहुभ्यां सम्परिष्वज्य ततो वाक्यं समाददे ॥ १२॥ न मे स्वों बहुमतः संमानश्च सुरर्षिभिः। त्वया राम विहीनस्य सत्यं प्रतिशृणोमि ते ॥१३॥
अद्य त्वां निहतामित्रं दृष्ट्वा सम्पूर्णमानसम् । निस्तीर्णवनवासं च प्रीतिरासीत् परामम ॥ १४॥ M॥४-६॥ एष इत्यादिश्लोकद्वयमेकान्वयम् । देवदेहपरिग्रहेणापरिज्ञायमानत्वात् पुर:स्थितोऽप्येष इत्यङ्गुल्या निर्दिश्यते । मानुषे लोके गुरुरित्यनेन
"पिता पुत्रेण पितृमान् योनियोनो" इति श्रुतिरुपबृंहिता ॥ ७-१० ॥ हर्षेणेत्यादिचोकद्वयमेकान्वयम् । पुत्रं रामम् ॥ ११ ॥ १२ ॥ न मे स्वर्ग इति । स्थापयित्वा ॥ ५॥६॥ एष इति । देवदेहपरिग्रहं कृत्वा विमाने पुरःस्थितत्वादेष इत्याख्या निर्देशः ॥ ७-१६ ॥ सा-मानुषेलोके लीलागृहीतमानुषदेहविषये तब पिता, मानुषे लोके मनुश्यलोक इति वा । किश्विद्यत्यस्ताकारतया रच इत्यङ्गुल्या निर्देश इति झेयम् । गुरुस्तति रामसम्बोधनम् । गुरुस्तव ब्रह्मादिमहाजन
॥३५२॥ पालत्य । एतेन न गुर्विति तवेति चाधिकमिति मन्तव्यम् । गुरुस्तवमहायशा इति दशरथाविशेषणं वा । गुरुस्तवे बहुभिः स्तुतेषु महायशाः तदपेक्षपाऽतियशस्वीति वा । " जनिता चोपनेता यक्ष विद्या |
प्रयच्छति । मलदाता भयत्राता पबैते पितरः स्मृताः॥" इति गुरुत्वस्य पितुपदार्थतानतिरेकान् ॥ ७॥
For Private And Personal Use Only