________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kalassagarsur Gyanmandir
www.kobatirm.org
सेपेत्यर्थः । एतेन मायासीतापमं प्रविश साक्षात्सीताऽग्निना दत्तेति प्रत्युक्तम् । ते त्वदीयेत्यर्थः । एनां परिगृहाणेति शेषः ॥६॥ पापाभावमेवोपपाद यति-नैवेत्यादिना । अनुध्यानात्सङ्कल्पात् । अत्यन्ताभिमतां देवी निर्दोषां जाननपि स्ववृत्तावद्यतपरिहारार्थे वह्नि प्रावेशयदिति सन्तोषातिशयावृत्त शौण्डीरेति संबोधनम् ॥ ७॥ एतत्संमति विना कथं रावणः समानीतवानित्यवाह-रावणनेत्यादि ॥ ८॥ विवशा नीतेत्यत्र लिङ्गं दर्शयति-रुद्धति ।
नैव वाचा न मनसा नानुध्यानान्न चक्षुषा । सुवृत्ता वृत्तशौण्डीर न त्वामतिचचार ह ॥ ७ ॥ रावणेनापनीतैषा वीयोंसिक्तेन रक्षसा। त्वया विरहिता दीना विवशा निर्जनादनात् ॥ ८॥ रुद्धा चान्तःपुरे गुप्ता त्वच्चित्ता त्वत्परा यणा । रक्षिता राक्षसीसबैर्विकृतघोरदर्शनैः॥९॥ प्रलोभ्यमाना विविध भत्य॑माना च मैथिली । नाचिन्तयत तद्रक्षस्त्वद्गतेनान्तरात्मना ॥ १०॥ विशुद्धभावां निष्पापां प्रतिगृह्णीष्व राघव । न किंचिदभिधातव्यमहमाज्ञा पयामि ते ॥ ११ ॥ ततःप्रीतमना रामः श्रुत्वैतद्वदतां वरः । दध्यौ मुहूर्त धर्मात्मा बाष्पव्याकुललोचनः ॥ १२॥ एवमुक्तो महातेजा द्युतिमान् दृढविक्रमः । अब्रवीत् त्रिदशश्रेष्ठं रामो धर्मभृतां वरः ॥ १३ ॥ अवश्यं त्रिषु लोकेषु न सीता पापमहति । दीर्घकालोषिता हीयं रावणान्तःपुरे शुभा ॥ १४॥ त्वयि चित्तं यस्याः सा त्वञ्चित्ता । त्वमेव परायणमुत्तमगतिर्यस्याः सा त्वत्परायणा ॥९॥१०॥ विशुद्धभावामिति । विशुद्धभावां विशुद्धहृदयान् । अभिधातव्यम्, मवचनस्योत्तरमिति शेषः ॥११॥ तत इति । दध्यो न वृयेव सीता त्यक्तेत्यचिन्तयत् ॥ १२ ॥ १३ ॥ वस्तुतो निदोषत्वेऽपि रुद्धा निरुद्धस्वच्छन्दगमनादिन्यवहारा । गुप्ता परिहतस्वजनदर्शना। त्वयि चित्तं यस्यास्सा अत एव त्वत्परायणा त्वद्गतिः ॥९॥ तद्रक्षो नाचिन्तयत नागणयत् । तत्र हेतुरन्तरात्मनस्त्वद्गमत्वम् । एवञ्च यत्प्रतिविम्बस्याप्येवं व्यवस्था तद्विम्बस्य शुद्धत्वं किं वक्तव्यमिति भावः ॥१०॥ न किञ्चिदिति। मन्त्रियोगानन्तरं प्रतिमाशा नवेति सन्देहो नगृहामीति निषेधश्च न कर्तव्य इत्यर्थः कृत एवम् तत्राह आज्ञापयामि त इति । एवमुक्तिस्तु रामेग स्वस्वरूपाक्षाननटनात्तदनुसारेण रुद्रमूत पाभंगवतोऽप्रेरपीति मन्तव्यम् ॥ १२-१३॥ अवश्यमिति । रावणान्त पुरे दीर्घकालोषिता सीता त्रिषु लोकेषु विषये पापं शोधनं नाहेतीति योजना । यद्वा अवश्य
%
4
For Private And Personal Use Only