SearchBrowseAboutContactDonate
Page Preview
Page 705
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir "ऋष आलोचने" इति धातुः । महांश्चासावृषभश्च महर्षभः । एवंभूतो वेदात्मा त्वमित्यर्थः । आदिकर्ता समष्टिकर्ता । अनेन व्यष्टिकर्तुः स्वस्य व्यावृत्तिः । स्वयंप्रभुः अनन्यप्रेर्यः । 'न तस्येशे कश्चन' इति श्रुतेः । सिद्धानां मुक्तानां साध्यानाम् “यत्र पूर्वे साध्याः सन्ति देवाः " इत्युक्तानां नित्यानामाश्रयः साम्य भोगप्रदः । पूर्वजः आश्रितापेक्षायाः पूर्व तद्रक्षणाय जनितः ॥ १९ ॥ २० ॥ तनि० - वेदात्मा वेदपुरुषान्तर्यामी । पूर्वजः “ पूर्वमेवाहमिहासम्” इति श्रुतेः । हिर्हेतौ । आदिकर्तृत्वे पूर्वजत्वं हेतुरित्यर्थः । सिद्धायाश्रयत्वे चायमेव हेतुः ॥ १९॥२०॥ सर्वकर्मसमाराध्यत्वमाह-त्वं यज्ञ इति । त्वं यज्ञः "यज्ञो वै विष्णुः” त्वं त्रयाणां हि लोकानामादिकर्ता स्वयम्प्रभुः । सिद्धानामपि साध्यानामाश्रयश्चासि पूर्वजः ॥ २० ॥ त्वं यज्ञस्त्वं वषट्कारस्त्वमोङ्कारः परन्तपः । प्रभवं निधनं वा ते न विदुः को भवानिति ॥ २१ ॥ दृश्यसे सर्वभूतेषु ब्राह्मणेषु च गोषु च । दिक्षु सर्वासु गगने पर्वतेषु वनेषु च ॥ २२ ॥ इति श्रुतेः । यज्ञनिर्वाहक पशुविराज्यसुक्खुवादिशरीरको यज्ञाराध्येन्द्रादिशरीरक श्वेत्यर्थः । “ब्रह्मार्पणं ब्रह्मविर्ब्रह्माग्नौ ब्रह्मणा हुतम् " इति हि गीयते । वषट्कार इत्युपलक्षणम् " आश्रावयेति चतुरक्षरमस्तु श्रौषडिति चतुरक्षरं यजेति द्वयक्षरं ये यजामह इति पञ्चाक्षरम् इत्युक्तानां सप्त दिशाक्षराणाम् । तेराराध्य इत्यर्थः । तथोक्तम्- “ चतुर्भिश्च चतुर्भिश्च द्वाभ्यां पञ्चभिरेव च । हूयते च पुनर्द्वाभ्यां स नो विष्णुः प्रसीदतु ॥ " इति । ओङ्कारः प्रणववाच्यः । " ओमित्येकाक्षरं ब्रह्म ” इति श्रुतेः । परन्तपः उत्कृष्टतप इत्यर्थः, उत्कृष्टतपस्समाराध्य इति यावत् । ते प्रभवं निधनं वा न विदुः, वेदा वैदिकाश्च को भवानिति च न विदुः । अपरिच्छिन्नमहिमत्वात् । " क इत्था वेद यत्र सः " इति श्रुतेः ॥ २१ ॥ सर्वान्तर्यामित्वमाहदृइयस इति । योगिभिरिति शेषः । अनेन सम्बन्धप्रश्रस्योत्तरमुक्तम् ॥ २२ ॥ तनि०- सर्वान्तर्यामित्वमाह दृश्यस इति । पण्डितैरिति शेषः । "भूतानि विष्णुर्भुवनानि विष्णुर्वनानि विष्णुर्भिरयो दिशश्व । नव्यः समुद्राश्व स एव सर्वे यदस्ति यन्नास्ति च विप्रवर्ध ॥ " इति हि स्मर्यते ॥ २२ ॥ सामवेदोऽस्मि" इति स्मृतेश्व । शतजिह्नः नित्यनैमित्तिककाम्यरूपसामान्यविशेषचोदनारूप शतजिह्नः । शतशीर्ष इति वा पाठः । महर्षभः श्रेष्ठतमः ॥१५॥ आदि कर्ता ब्रह्मादीनामपि कर्ता । स्वयंप्रभुः अनन्यर्यः । साध्यन्ते आराध्यन्ते इति साध्याः तेषां सिद्धानां मुक्तानामप्याश्रयः प्राप्यः । पूर्वजः सृष्टेः पूर्वमपि स्थितः ॥२०॥ त्वं यज्ञ इत्यादि । न विदुः को भवानिति इदन्तया न विदुरित्यर्थः ॥ २१ ॥ सर्वात्मतया स्तौति-दृश्यस इति । सर्वभूतेषु ब्राह्मणेषु गोषु च अन्तर्यामितया दृश्यसे, गोब्राह्मणयोर्विश्वान्तर्वर्तित्वेऽपि पृथगभिधानं विशिष्टाविर्भावस्थानतथा । एवं सर्वजङ्गमान्तर्यामिनामभिधाय स्थावरान्तर्यामितामाह दिविति ॥ २२ ॥ For Private And Personal Use Only
SR No.020795
Book TitleValmiki Ramayanam Part 05
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages772
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy