________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
चान्ते चेति । चकारादादौ चेत्यर्थः । वर्तमानमिति शेषः। नित्यत्वमुक्तमनेन । लोकानां परो धर्मः सिद्धरूपो धर्मः, सर्वलोकश्रेयस्साधनीभूत इत्यर्थः विष्यद्रीची सांगता सेना यस्य सः विष्वक्सेनः । सर्वस्वामीत्यर्थः । चतुर्भुजः युगपञ्चतुर्विधपुरुषार्थप्रद इत्यर्थः ॥ १५॥ शार्ङ्गधन्वेति । शृङ्गविकारः शार्ङ्गधनुर्यस्य स शाङ्गधन्वा । “धनुषश्च" इत्यनङादेशः । अनेन रक्षणोपकरणवत्त्वमुक्तम् । हपीकाणाम् इन्द्रियाणाम् ईशः नियन्ता, सर्वेन्द्रिया कर्षकदिव्याविग्रह इत्यर्थः । पुरु सनोतीति पुरुषः। "षणु दाने" इत्यस्माद्धातोर्डप्रत्ययः । बहुपदः इत्यर्थः। यद्वा पुरि हृदयगुहायां शेत इति ।
शार्ङ्गधन्वा हृषीकेशः पुरुषः पुरुषोत्तमः । अजितः खड्गद्विष्णुः कृष्णश्चैव बृहदलः ॥ १६ ॥
सेनानीामणीश्च त्वं बुद्धिः सत्त्वं क्षमा दमः । प्रभवश्चाप्ययश्च त्वमुपेन्द्रो मधुसूदनः ॥ १७ पुरुषः । “पुरि शयं पुरुषमीक्षते इति" निर्वचनश्रुतेः। यदा येन जगत्पूर्ण स पुरुषः । “तेनेदं पूर्ण पुरुषेण सर्वम्" इति श्रुतेः । यद्वा पुरातनत्वात् । पुरुषः । “पूर्वमेवाहमिहासमिति तत्पुरुषस्य पुरुषत्वम्" इति श्रुतेः । पुरुपेभ्यःक्षराक्षरेभ्यः उत्तमः पुरुषोत्तमः। “यस्मात्क्षरमतीतोऽहमक्षरादपि।। चिोत्तमः ।अतोऽस्मिलोके वेदे च प्रथितः पुरुषोत्तमः॥” इति हि गीयते । यदा पुरुषेषु उत्तमः पुरुषोत्तमः। “सप्तमी" इति योगविभागानागोत्तमादिवत् । समासः । कैश्चिदपि न जित इत्यजितः, आश्रितसंरक्षणे कदाचिदपि भङ्गं न प्राप्नोतीत्यर्थः। खड् नन्दकाख्यं धरतीति खड्गधृत् । विष्णुः व्यापन। शीलः । यो (यदाऽऽपद) दयापदं प्राप्नोति तं तदा तत्रैव स्थितो रक्षतीत्यर्थः । कृष्णः भूनिवृतिहेतुः । “कृषि वाचकः शब्दो णश्च निर्वृतिवाचकः इति निर्वचनात् । बृहत् बलं धारणसामर्थ्य यस्य सः बृहदलः ॥१६॥ सेनानीरिति ।सेनां नयतीति सेनानी, देवसेनानिर्वाहक इत्यर्थः। ग्रामं नयतीति शमदमादिः शमदमादिप्राप्यत्वात्तथोच्यते । विष्वक्सेनः विष्वद्रीची सर्वगता सेना यस्य सः । चतुर्भुजः शत्रुनिरसनदक्षाश्चत्वारो भुजा यस्य सः ॥१५ ॥ शाई! धन्वा कालरूपं शाङ्ग धनुर्यस्य सः । हृषीकेशः हृषीकाणां विषयेन्द्रियाणाम ईशः । पुरुषः पुरूणि फलानि सनोति ददातीति तथा " पणु दाने" । यद्वा पुरि हृदय पुण्डरीके शेत इति वा पुरुषः । पूर्णत्वाद्वा पुरुषः । “तेनेदं पूर्ण पुरुषेण सर्वम्" इति श्रुतेः । पुरुषोत्तमः पुरुषशब्दवाच्यक्षराक्षराद्यपेक्षया उत्तम इत्यर्थः "यस्माक्षरमतीतोऽहमक्षरादपि चोत्तमः। अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः" इति स्मृतेः। अजितः गुणेरैश्वर्येण च केनाप्पजितः। खड्कृत विद्यामय
बन्दका रूपं धारयतीति खड्गधृव । विष्णुः व्यापकः । कृष्णः "कृषि वाचकशब्दो णश्च निवृतिवाचकः । तथा च तत्परं ब्रह्म कृष्ण इत्यभिधीयते ॥" इति MAचनात । बहद्वला चूहन्ति वानरबलानि यस्येति नथा ॥ १६ ॥ सेनानीः महती वानरसेना नयतीति सेनानी थोष इत्यर्थः । प्रामणी ग्रामः प्राणिवर्गः तं नयति।
For Private And Personal Use Only