________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
खा.रा.भ. IN
इति ॥ १२॥ स्वरूपप्रश्नोत्तरमाइ-भवान्नारायण इति । नाराः अयनं यस्यासौ नारायणः । “ आपो नारा इति प्रोक्ता आपो वे नरसूनवः । ताटी .यु.का यदस्यायनं पूर्व तेन नारायणः स्मृतः॥” इति मनुस्मरणात् । तेन जगत्कारणत्वमुक्तम् । “एको ह वे नारायण आसीन ब्रह्मा नेशानो नेमे द्यावापृथिकी"
स०१२० इति श्रुतेः। अवाप्तसमस्तकामस्य जगब्यापारानुपपत्तिं परिहरति देव इति । दीव्यतीति देवः क्रीडाप्रवृत्तः । लीलायाः प्रयोजनत्वात् । परिपूर्ण स्यापि व्यापारः सम्भवतीति भावः। एवं परत्वासाधारणं नामधेयमुक्त्वा पत्नीवशिष्टयमाह श्रीमानिति । नित्यं श्रीरस्यास्तीति श्रीमान् । नित्य
भवान्नारायणो देवः श्रीमांश्चक्रायुधो विभुः । एकशृङ्गो वराहस्त्वं भूतभव्यसपत्नजित् ॥ १४॥
अक्षरं ब्रह्म सत्यं च मध्ये चान्ते च राधव । लोकानां त्वं परो धर्मो विष्वक्सेनश्चतुर्भुजः॥ १५॥ योगे मतप । असाधारणमायुधमाह चक्रायुध इति । स्वरूपवेलक्षण्यमाह विभरिति । व्यापक इत्यर्थः । फलितं रक्षकत्वमाह पकड़ो वराह इति । प्रलयोदधिसम्पवे वराहरूपं कृत्वा भूमेरुद्धारक इत्यर्थः । “उद्धृताऽसि वराहेण" इति श्रुतेः । अनिष्टनिवर्तकत्वमाह भूतभव्यसपत्नजिदिति । भूताः सपत्नाः मधुकैटभादयः, भव्याः सपत्नाः शिशुपालादयः तान् जयतीति तथोक्तः ॥ १४ ॥ तनि०-श्रीमानिति नित्ययोगे मतुए । भवान् श्रीमानिति “सीता लक्ष्मी वान विष्णुः" इत्युक्तश्रियःपतित्वं नित्यानपायित्वं च दर्शितम् । एकशृङ्गो वराहः “म बराहो रूपं कृत्वा" इति श्रुत्युक्तो वराहस्त्वम् ॥ १४॥ अथ सर्वविद्योपसंहारार्थमाह-अक्षरमित्यादि । न क्षरतीत्यक्षरम्, अश्नोति व्यामोतीति वा अक्षरम् । “एतद्वै तदक्षरं गार्गि ब्राह्मणा अभिवदन्ति" इति । श्रुतेः। भवानित्यनुषज्यते । अक्षरं भवान् । एवमुत्तरत्राप्यनुषजनीयम् । बृहति बृहयतीति च ब्रह्म । “बृहति व्हयति तस्मादुच्यते परं ब्रह्म" इति श्रुतिनिर्वचनात् । सत्यम् अविपर्यस्तम्, षड्भावविकारशून्यमित्यर्थः । अस्ति जायते परिणमते विवर्धते अपक्षीयते विनश्यतीति षड्भावविकाराः । मध्ये सोशील्यं वर्णयति-आत्मानं मानुषमिति । योऽहं यत्स्वरूपः, यस्य यदीयः, यतः प्रयोजनाद्धेतोः उत्पन्नः ॥१२॥१३॥ स्वरूपप्रश्नस्योत्तरमाह-भवानारायण इति । नारायणः नराणां समूहो नारं तस्यायनं प्राप्यभूता, देवः स्वयंप्रकाश इत्यर्थः। एकभृङ्गो वराहा आदिवराहः । तस्येकशृङ्गता स्कान्दे दर्शिता-“दंष्ट्रया पर्वतेन्द्राणी ॥१७॥ चालनं कृतवान्महत् । ततस्तं तुष्टुवुर्देवा एकशृङ्गत्वसिद्धये। एकभृङ्गो वराहोऽभूत्तदाप्रभृति माधवः ॥” इति । भूनभव्या भूतभव्यकालात्मकः । भूतभव्यः सपत्न जिदिति पाठः ॥१४॥ अक्षरं परं ब्रह्म "तदक्षरं यस्य योनि परिपश्यन्ति धीराः" इति श्रुतेः । सत्यं तत्त्वभूतम् । लोकानां मध्ये अन्ते चकारादादावपि परो धर्मः।
For Private And Personal Use Only