________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
स्वामीति वसुविशेषणम् । आदिकर्ता अण्डाधिपतिपर्यन्ताद्वारकसृष्टिकर्तेत्यर्थः । स्वयं प्रभवतीति स्वयम्प्रभुः, अनियाम्य इत्यर्थः। रुद्राणां मध्ये अष्टमो रुद्रः, तथा साध्यानामित्यत्रापि । अन्ते चेति । अन्ते प्रलये, आदौ सृष्टेः प्राक् च दृश्यसे । अनेनोत्पत्तिविनाशराहित्यमुक्तम् । एवं सर्वज्ञः सर्वशक्तिः सर्वेश्वरोऽपि सन् अज्ञ इव विदेहकुले प्रादुर्भूतां सीतां किमर्थमुपेक्षस इत्यर्थः ।। ८-१०॥ इत्युक्त इति । लोकपाले लोकरक्षकैः ॥१03. ब्रह्मादिभिः सामान्यतः स्तूयमानोऽपि सर्वदेवपूजनीयाञ्चतुर्मुखात स्वप्रभावं लोके प्रख्यापयितुं स्वसौशील्यं दर्शयति-आत्मानमिति । आत्मानं मानुषं।
अश्विनौ चापि ते कर्णो चन्द्रसूर्यों च चक्षुषी। अन्ते चादौ च लोकानां दृश्यसे त्वं परन्तप ॥९॥ उपेक्षसे च वैदेहीं मानुषः प्राकृतो यथा ॥ १०॥ इत्युक्तो लोकपालैस्तैः स्वामी लोकस्य राघवः । अब्रवीत्रिदशश्रेष्ठान रामो धर्मभृतां वरः ॥ ११॥ आत्मानं मानुषं मन्येरामंदशरथात्मजम् । योऽह यस्य यतश्चाहं भगवास्तद् ब्रवीतु मे
॥१२॥ इति ब्रुवन्तं काकुत्स्थंब्रह्मा ब्रह्मविदां वरः। अब्रवीच्छृणु मे राम सत्यं सत्यपराक्रम ॥१३॥ मन्ये परत्वापेक्षया मानुषत्वाभिनय एव ममाभिमत इत्यर्थः । अत्रापि विशेषमाह राममिति । रामं रामनामकम् । ततोऽप्पतिशयमाह दशरथा मजमिति । अवतारापेक्षया चक्रवर्तिपुत्रत्वमेव प्रियतममिति भावः । स्वस्य विष्ण्ववतारत्वं सुग्रीवादिभिरनवगतमिति तत्प्रतिपत्त्यर्थ स्वस्वरूपं पृच्छति योऽहमिति । योऽहमिति स्वरूपप्रश्रः। यस्येति सम्बन्धिप्रश्नः। यत इति प्रयोजनप्रश्नः। भगवान् तद्भवीत्विति । चक्रवर्तिपुत्रत्वमेव ममात्यन्त प्रिय तमम्, स्वयं सर्वज्ञतया ममानभिमतमपि परत्वं प्रकटयत्वित्यर्थः । आकारगोपनविवरणस्यानभिमतत्वेऽपि स्वयमनुमतिदानं राषणनिरसनेन निष्पन्नकार्यतया ॥ १२ ॥१३|| तनि०-अत्र सम्प्रदायोदाहरणम् --'शचक्रगदापाणे' इत्युक्त्या परत्वव्यञ्जकतया तत्रानादरेणाधःकतमुखत्वम्, 'द्वारकानिलय इत्यवतारोडेखनेन किश्चिदुत्तानमुखत्वम्, ' गोविन्द पुण्डरीकाक्ष ' इति गोपालपुत्रत्वश्रवणेन परत्वापेक्षया वसुदेवपुत्रत्वमेवाभिमतमिति विकसिताक्षत्वं च व्यज्यत . वि विश्व साध्या द्वादश जज्ञिरे ॥" इति ॥ ८॥ विरादरूपावं वर्णयति-अश्विनी चेत्यादिना ॥९॥१०॥ लोकपाले: इन्द्रादिब्रह्मान्तः पूर्वोक्तः लोकस्य भूलोकस्येदानीं साक्षात्स्वामी राघवः रघुकुलजः ॥ ११ ॥ दिक्पाले स्तूयमानोऽपि तैः पूजनीयात चतुर्नुखादात्मस्वरूपगुणविभूति स्वजनेषु प्रख्यापयितुंषा
For Private And Personal Use Only