________________
Shri Mahavir Jain Aradhana Kendra
वा.रा.भू..
॥ ३४५ ।।
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
त्यर्थः ।। १५-- १७॥ मिथ्योपपातः मिथ्यापवादः ||१८|| अप्रीतस्येति । गुणैरप्रीतस्य विद्यमानैः पातित्रत्यादिगुणैरपि अप्रीतस्य भर्तुः त्यक्ताया मे या गन्तुं टी. यु.कॉ. क्षमा गतिः प्रत्ययजननार्थे या योग्या गतिः तं इव्यवाहनं प्रवेक्ष्य इति योजना || १९|| अमर्षवशं दैन्यवशम् ॥ २० ॥ आकारः भूसंज्ञादिः । मते सिद्धान्ते,
स० ११९
चितां मे कुरु सौमित्रे व्यसनस्यास्य भेषजम् । मिथ्योपघातोपहता नाहं जीवितुमुत्सहे ॥ १८ ॥ अप्रीतस्य गुणै भर्तुस्त्यक्ताया जनसंसदि । या क्षमा मे गतिर्गन्तुं प्रवेक्ष्ये हव्यवाहनम् ॥ १९ ॥ एवमुक्तस्तु वैदेह्या लक्ष्मणः पर वीरहा । अमर्षवशमापन्नो राघवाननमैक्षत ॥ २० ॥ स विज्ञाय ततश्छन्दं रामस्याकार सूचितम् | चितां चकार सौमित्रिर्मते रामस्य वीर्यवान् ॥ २१॥ अधोमुखं तदा रामं शनैः कृत्वा प्रदक्षिणम् । उपासर्पत वैदेही दीप्यमानं हुताशनम् ॥ २२ ॥ प्रणम्य देवताभ्यश्च ब्राह्मणेभ्यश्च मैथिली । बद्धाञ्जलिपुटा चेदमुवाचाग्निसमीपतः ॥ २३ ॥ यथा मे हृदयं नित्यं नापसर्पति राघवात् । तथा लोकस्य साक्षी मां सर्वतः पातु पावकः ॥ २४ ॥ यथा मां शुद्ध चारित्रां दुष्टां जानाति राघवः । तथा लोकस्य साक्षी मां सर्वतः पातु पावकः ॥ २५ ॥ कर्मणा मनसा वाचा यथा नातिचराम्यहम् । राघवं सर्वधर्मज्ञं तथा मां पातु पावकः ॥ २६ ॥ आदित्यो भगवान वायुर्दिशश्चन्द्रस्तथैव च । अश्वापि तथा सन्ध्ये रात्रिश्च ष्टथिवी तथा । यथान्येऽपि विजानन्ति तथा चारित्रसंयुताम् ॥ २७ ॥ स्थित इति शेषः॥२१॥ अधोमखमिति । पतिव्रतायाः कथं निर्व्याजं प्रत्ययं पश्यामीति लज्जय। मुखदर्शने दाक्षिण्यं भविष्यतीति बुद्धया चावनतमुखम् । शनैः रामानुभवेन मन्दं यथा तथा ॥२२-२४॥ यथा मामिति । यथा शुद्धचारित्रामेव मामन्यायेन दुष्टां जानाति, तथा चेत् अदुष्टां दुष्टेति जानाति चेत् पावकः पातु, रामस्य मयि दोषज्ञानं यथार्थ चेत्पात्वित्यर्थः ॥ २५ ॥ २६ ॥ आदित्य इत्यादिसार्धश्लोक एकान्वयः । आदित्यादयोऽन्ये च यथा मां न पुरस्कृतमित्यर्थः । अपरित्यागहेतुत्वेन सर्वलोकसम्मतं पाणिग्रहणमपि पृष्ठतः कृतं न प्रमाणीकृतनित्यर्थः ॥ १५-१७ ॥ चितामिति । मिथ्योपघातः मिथ्याभि ॥ २४५॥ योगः || १८ || अमीतस्य भर्तुः भर्चा त्यक्ताया मे गन्तुं क्षमा गतिः प्रत्ययजननार्थं योग्यस्थानमित्यर्थः । तनो हव्यवाहनं प्रवेक्ष्य इति योजना ॥ १९ ॥ २० ॥ ॥ स इति । आकारसूचितं भ्रूभङ्गादिना सूचितम् ॥ २१-२४ ॥ दुष्टां दुष्टत्वेन शङ्किताम्, माँ शुद्धचारित्रां जानाति मां सर्वतः पातु । यद्वा राघवः यथा शुद्ध
For Private And Personal Use Only